Book Title: Shaddarshan Part 01 Sankhya Yog
Author(s): Nagin J Shah
Publisher: University Granthnirman Board

Previous | Next

Page 201
________________ સાંખ્યદર્શન ૧૯૧ प्रमाणफलयोः । ज्ञानादिधर्मयोगः प्रमाणं पुंसि न विद्यते, तत्फलमर्थदर्शनं बुद्धौ नास्तीति । अथ स्वच्छत्या पुंसो बुद्धिवृत्त्यनुपातिनः, बुद्धेर्वा चेतनाकारसंस्पर्श इव लक्ष्यते । एवं सति स्ववाचैव मिथ्यात्वं कथितं भवेत् । चिद्धर्मो हि मृषा बुद्धौ, बुद्धिधर्मश्चितौं मृषा । न्यायमंजरी । 3१ ईश्वरकृष्णस्तु ‘प्रतिविषयाध्यवसायो दृष्टम्' इति प्रत्यक्षलक्षणमवोचत् तदपि न मनोज्ञम्, अनुमानादिज्ञानानामपि विषयाध्यवसायस्वभावत्वेनातिव्याप्तेः । यत् तु राजा व्याख्यातवान्- 'प्रतिराभिमुख्येन वर्तते तेनाभिमुख्येन विषयाध्यवसायः प्रत्यक्षम्' इति तदप्यनुमानादावस्त्येव । घटोऽयमितिवदग्निमान् पर्वत इत्याभिमुख्येनैव प्रतीतेः । स्पष्टता तु सर्वसंविदा स्वविषये विद्यते एव । अथ मन्यसे सामान्यविहितस्य विशेषेण बाधादनुमानादिव्यावृत्तिः सेत्स्यति । यद्येवं प्रत्यक्षलक्षणमिदानीमव्याकारणीयमेव, शब्दलिङ्गग्रहणे वर्णिते सति तद्वैलक्षण्यादेव प्रत्यक्षं ज्ञास्यते इति । न्यायमंजरी ।। 3२ 'तल्लिङ्गलिङ्गिपूर्वकम्' इति लिङ्गं व्याप्यम् । लिङ्गि व्यापकम् । ..येन च प्रतिबद्धं तद् व्यापकम् लिङ्गलिङ्गिग्रहणेन च विषयवाचिना विषयिणं प्रत्ययमुपलक्षयति । धूमादिाप्यो बह्नयादिापक इति. यः प्रत्ययस्तत्पूर्वकम् । लिङ्गिग्रहणं चावर्तनीयम्। तेन लिङ्गमस्यास्तीति पक्षधर्मताज्ञानमपि दर्शितं भवति । तद् व्याप्यव्यापकभावपक्षधर्मताज्ञानपूर्वकमनुमानमिति अनुमानसामान्यं लक्षितम् । सां० त० कौ० ५ । 33 व्याप्तिदर्शनाद् व्यापकज्ञानमनुमानं प्रमाणमित्यर्थः .। अनुमितिस्तु पौरुषेयो बोध इति। सां० प्र० भा० १. १०० । . 3४ साध्यावधारणं प्रतिज्ञा । युक्तिदी० ६ । 3५ साधनसमासवचनं हेतुः, साध्यतेऽनेनेति साधनं लिङ्गम, समासः संक्षेपः, साधनस्य समासवचनं साधनसमासवचनम् । लिङ्गनिर्देशमानं हेतुः । युक्तिदी० ६ । 35 उदाहरणं त्वत्र निदर्शनं दृष्टान्तः, तस्य साध्येन सहभावित्वनिदर्शनं दृष्टान्तः । . युक्तिदी० ६ । 3७ साध्यदृष्टान्तयोरेकक्रियोपसंहार उपनयः । युक्तिदी० ६ । 3८ हेतुदृष्टान्तोपसंहारापेक्षया पुनरभ्यासस्तन्निगमनम् । युक्तिदी० ६ । 3८ तस्य पुनरवयवाः जिज्ञासा-संशय-प्रयोजन-शक्यप्राप्ति-संशयव्युदासलक्षणाश्च व्याख्याङ्गम, प्रतिज्ञा-हेतु-दृष्टान्तोपसंहार-निगमनानि परप्रतिपादनाङ्गमिति ।.. युक्तिदी० ६ । ४० युक्तिदी० ६ । ४१ माठरवृत्ति ५ ।

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324