________________
२२२.
પદર્શન २६ सा च द्वयी-भावितस्मर्तव्या चाभावितस्मतव्या च । स्वप्ने भावतस्मर्तव्या,
जाग्रत्समये त्वभावितस्मर्तव्येति । योगभाष्य १. ११ । स्वप्ने हि कल्पनया
स्मृतिविषया उद्भाव्यन्ते, जागरे न तथा । तत्त्ववैशारदी १. ११ ।। २७ भावित उद्भावितः सूचितः स्मर्तव्यार्थो ययेति भावितस्मर्तव्या ... स्वप्नदर्शनमेव हि
भाव्यर्थसूचकतया शास्त्रे सिद्धं न तु जाग्रत्कालीना स्मृतिरिति । ननु स्वप्ने पूर्वदृष्टत्वास्मरणात् संस्कारमात्रजन्यत्वाभावाच्च कथं स्मृतित्वमिति चेद् न, अंशतस्तदुभयरूपत्वस्य स्वप्नज्ञानेष्वपि सत्त्वात्, तादृशस्य स्वप्नांशस्यैवात्रोपन्यासादिति । योगवार्तिक १. ११ ।