Book Title: Shaddarshan Part 01 Sankhya Yog
Author(s): Nagin J Shah
Publisher: University Granthnirman Board

View full book text
Previous | Next

Page 231
________________ યોગદર્શન २२१ वस्तुतोऽभावात् तदाभासो विकल्पो न प्रमाणम्: नापि विपर्ययो व्यवहाराविसंवादात् । तत्त्ववैशा० १. १ । १६ अभावप्रत्ययालम्बना वृत्तिर्निद्रा । योगसूत्र १. १० । जाग्रत्स्वप्नवृत्तीनामभावः, तस्य प्रत्ययः कारणं बुद्धिसत्त्वाच्छादकं तमः, तदेवालम्बनं विषयः यस्याः सा तथोक्ता वृत्तिर्निद्रा । तत्त्ववैशारदी १. १० । १७ सा च संप्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः...स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे, तदाश्रिता स्मृतयश्च तद्विषया न स्युः, तस्मात् प्रत्ययविशेषो निद्रा । योगभाष्य १.१० । ૧૮ અહીં એ ધ્યાનમાં લઈએ કે પતંજલિએ સ્પષ્ટપણે જણાવ્યું છે કે ચિત્ત પોતે પોતાને ગ્રહણ કરતું નથી કે તે ચિત્તાન્તરથી પણ ગૃહીત થતું નથી પરંતુ તે પુરુષ દ્વારા જ ગૃહીત થાય છે. આ વાતની સાથે અને વિરોધ નથી લાગતો? १८ न च चित्तेन चित्तग्रहणे कर्मकर्तृविरोधः, वृत्त्या चित्तस्य ग्रहणेन कर्मकर्जर्भेदात् । योगवार्तिक १. १० । २० ननु वृतिं विनाऽपि सुखादिवत् सुषुप्तौ स्वापस्य साक्षिभास्यत्वमभ्युपगम्य तत्स्मरणमुपपादनीयमित्याशङ्क्याह-तदाश्रिता इति । तद्विषयाः प्रत्ययविषयिकाः स्मृतयोऽपि तदाश्रिताश्चित्ताश्रिता न स्युरन्यदृष्टस्यान्येनास्मरणादित्यर्थः । न च स्मरणमपि साक्षिण्येवास्त्विति वाच्यम्, तत्र संस्कारासम्भवात् स्मृत्याख्यपरिणामासम्भवाच्च । योगवार्तिक १. १० । २१. एकाग्रतुल्याऽपि तामसत्वेन निद्रा सबीजनि।जसमाधिप्रतिपक्षेति साऽपि निरोद्धव्या । तत्त्ववैशारदी १. १० । २२ - अनुभूतविषयासंप्रमोषः स्मृतिः । योगसूत्र १. ११ । २३ ग्राह्योपरक्तः प्रत्ययो ग्रादग्रहणोभयाकारनि सस्तथाजातीयकं संस्कारमारभते, स संस्कारः स्वव्यज्जकाजनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति । योगभाष्य १. ११ । २४. 'स्मृतिः पुनर्न पूर्वानुभवमर्यादामतिक्रामति, तद्विषया तदूनविषया वा न तु तदधिकविषया । तत्त्ववैशारदी १. ११ । २५ तयोः प्रत्ययस्मरणयोरत्यन्तं समानाकारत्वं न मन्तव्यं यतस्तत्र तयोर्मध्ये बुद्धिरनुव्यवसायरूपा यथोक्तप्रत्यया ग्रहणाकारविशेष्यिका भवति, घटमहं जानामीत्यनुव्यवसाये ज्ञानस्य घटांशे विशेष्यत्वात्, स्मृतिस्तु ग्राह्याकारविशेष्यिका • भवति स घट इत्येव स्मरणात्, तत्ता च पूर्वज्ञानत्वरूपा, अतः स्मृतौ ज्ञानस्य ग्राह्यं विशेष्यमिति । योगवार्तिक १. ११ । तत्र ग्रहणाकारपूर्वा बुद्धिः, ग्राह्याकारपूर्वा स्मृतिः । योगभाष्य १. ११ ।

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324