________________
યોગદર્શન
२२१ वस्तुतोऽभावात् तदाभासो विकल्पो न प्रमाणम्: नापि विपर्ययो व्यवहाराविसंवादात् ।
तत्त्ववैशा० १. १ । १६ अभावप्रत्ययालम्बना वृत्तिर्निद्रा । योगसूत्र १. १० ।
जाग्रत्स्वप्नवृत्तीनामभावः, तस्य प्रत्ययः कारणं बुद्धिसत्त्वाच्छादकं तमः, तदेवालम्बनं
विषयः यस्याः सा तथोक्ता वृत्तिर्निद्रा । तत्त्ववैशारदी १. १० । १७ सा च संप्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः...स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न
स्यादसति प्रत्ययानुभवे, तदाश्रिता स्मृतयश्च तद्विषया न स्युः, तस्मात् प्रत्ययविशेषो
निद्रा । योगभाष्य १.१० । ૧૮ અહીં એ ધ્યાનમાં લઈએ કે પતંજલિએ સ્પષ્ટપણે જણાવ્યું છે કે ચિત્ત પોતે
પોતાને ગ્રહણ કરતું નથી કે તે ચિત્તાન્તરથી પણ ગૃહીત થતું નથી પરંતુ તે પુરુષ
દ્વારા જ ગૃહીત થાય છે. આ વાતની સાથે અને વિરોધ નથી લાગતો? १८ न च चित्तेन चित्तग्रहणे कर्मकर्तृविरोधः, वृत्त्या चित्तस्य ग्रहणेन कर्मकर्जर्भेदात् ।
योगवार्तिक १. १० । २० ननु वृतिं विनाऽपि सुखादिवत् सुषुप्तौ स्वापस्य साक्षिभास्यत्वमभ्युपगम्य
तत्स्मरणमुपपादनीयमित्याशङ्क्याह-तदाश्रिता इति । तद्विषयाः प्रत्ययविषयिकाः स्मृतयोऽपि तदाश्रिताश्चित्ताश्रिता न स्युरन्यदृष्टस्यान्येनास्मरणादित्यर्थः । न च स्मरणमपि साक्षिण्येवास्त्विति वाच्यम्, तत्र संस्कारासम्भवात्
स्मृत्याख्यपरिणामासम्भवाच्च । योगवार्तिक १. १० । २१. एकाग्रतुल्याऽपि तामसत्वेन निद्रा सबीजनि।जसमाधिप्रतिपक्षेति साऽपि निरोद्धव्या ।
तत्त्ववैशारदी १. १० । २२ - अनुभूतविषयासंप्रमोषः स्मृतिः । योगसूत्र १. ११ । २३ ग्राह्योपरक्तः प्रत्ययो ग्रादग्रहणोभयाकारनि सस्तथाजातीयकं संस्कारमारभते, स
संस्कारः स्वव्यज्जकाजनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति ।
योगभाष्य १. ११ । २४. 'स्मृतिः पुनर्न पूर्वानुभवमर्यादामतिक्रामति, तद्विषया तदूनविषया वा न तु
तदधिकविषया । तत्त्ववैशारदी १. ११ । २५ तयोः प्रत्ययस्मरणयोरत्यन्तं समानाकारत्वं न मन्तव्यं यतस्तत्र तयोर्मध्ये
बुद्धिरनुव्यवसायरूपा यथोक्तप्रत्यया ग्रहणाकारविशेष्यिका भवति, घटमहं जानामीत्यनुव्यवसाये ज्ञानस्य घटांशे विशेष्यत्वात्, स्मृतिस्तु ग्राह्याकारविशेष्यिका • भवति स घट इत्येव स्मरणात्, तत्ता च पूर्वज्ञानत्वरूपा, अतः स्मृतौ ज्ञानस्य ग्राह्यं विशेष्यमिति । योगवार्तिक १. ११ । तत्र ग्रहणाकारपूर्वा बुद्धिः, ग्राह्याकारपूर्वा स्मृतिः । योगभाष्य १. ११ ।