________________
3०६
પદર્શન . कैवल्यं प्राप्ताः । ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी । योगभाष्य १. २४ ।
' ९ स तु सदैव मुक्तः सदैवेश्वरः । योगभाष्य १. २४ ।। १० योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त
अहोस्विन्निनिमित्त इति ? । तस्य शास्त्रं निमित्तम् । शास्त्रं पुनः किंनिमित्तम् ? प्रकृष्टसत्त्वनिमित्तम् । एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिसम्बन्धः ।
योगभाष्य १.२४ । ११ तच्च तस्यैश्वर्ये साम्यातिशयविनिर्मुक्तम्, न तावदैश्वर्यान्तरेण तदतिशय्यते,
यदेवातिशायि स्यात् तदेव तत् स्यात्, तस्माद् यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वरः,
न च तत्समानमैश्वर्यमस्ति । योगभाष्य १. २४ । १२ कस्मात् ? द्वयोस्तुल्ययोरेकस्मिन् युगपत् कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य
प्रसिद्धाविरतस्य प्राकाम्यविघातादूनत्वं प्रसक्तम्, द्वयोश्च तुल्ययोर्युगपत्
कामितार्थप्राप्तिस्त्यिर्थस्य विरुद्धत्वात् । योगभाष्य १. २४ । १३ योगभाष्य. १. २५ ।। १४ तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम् । योगभाष्य १. २५ । १५ यथास्य सर्गस्यादौ सिद्धस्तथातिक्रान्तसर्गादिष्वपि प्रत्येतव्यः । योगभाष्य १. २६ । १६ न चेश्वरस्य चितसत्त्वं महाप्रलयेऽपि प्रकृतिसाम्यं नोपैतीति वाच्यम् । तत्त्ववै० १.
२४ । १७ सर्गान्तरसमुत्पन्नसंजिहीर्षावधिसमये पूर्णे मया सत्त्वप्रकर्ष उपादेय इति प्रणिधानं
कृत्वा भगवान् जगत् संजहार । तदा चेश्वरचित्तसत्त्वं प्रणिधानवासितं प्रधानसाम्यमुपगतमपि परिपूर्णे महाप्रलयावधौ प्रणिाधानवासनावशात् तथैवेश्वरचित्तं
सत्त्वभावेन परिणमते । तत्त्ववै० १. २४ । .. १८ यस्य हि न कदाचिदपि प्रधानसाम्यं न तत् प्राधानिकम् , नापि
चितिशक्तिरशत्वादित्यर्थान्तराप्रामाणिकमापद्येत । तत्त्ववै० १. २४ । १९ तच्चायुक्तम् । 'तस्य हेतुरविद्या' इत्यागामिसूत्रेणाविद्याया बुद्धिपुरुषसंयोगहेतुत्व
वचनेनेश्वरस्याप्यविद्वत्त्वापत्तेः...ईश्वरोपाधौ संस्कारस्य प्रतिषिद्धत्वात् तदभ्युपंगमोऽपि - तेषामपसिद्धान्त एव । योगवार्तिक १. २४ । २० ईश्वरस्यापि धर्माधिष्ठानार्थं प्रतिबन्धापनये एव व्यापारो वेदितव्यः । तत्त्ववैशारदी
२१ ईश्वरस्य तु परदुःखप्रहाणेच्छा विद्यमानाऽपि भक्तवशतया कुण्ठिता स्वकार्याय
विलम्बत इति सर्व समञ्जसम्, यच्च सर्वेश्वरस्य कर्मसापेक्षतया वैषम्यं नैघृण्यं चं
ब्रह्ममीमांसासूत्रेणापाकृतं तत्राप्ययमेवाशयः । योगवार्तिक १. २५ । २२ भगवान् जगत् संजहार । तत्त्ववै० १. २४ । २३ प्रकृतेर्वैषम्यहेतुः क्षोभोऽपीश्वरेच्छात एव । योगवार्तिक १. २४ ।