________________
સાંખ્યદર્શન
૧૯૧ प्रमाणफलयोः । ज्ञानादिधर्मयोगः प्रमाणं पुंसि न विद्यते, तत्फलमर्थदर्शनं बुद्धौ नास्तीति । अथ स्वच्छत्या पुंसो बुद्धिवृत्त्यनुपातिनः, बुद्धेर्वा चेतनाकारसंस्पर्श इव लक्ष्यते । एवं सति स्ववाचैव मिथ्यात्वं कथितं भवेत् । चिद्धर्मो हि मृषा बुद्धौ,
बुद्धिधर्मश्चितौं मृषा । न्यायमंजरी । 3१ ईश्वरकृष्णस्तु ‘प्रतिविषयाध्यवसायो दृष्टम्' इति प्रत्यक्षलक्षणमवोचत् तदपि न
मनोज्ञम्, अनुमानादिज्ञानानामपि विषयाध्यवसायस्वभावत्वेनातिव्याप्तेः । यत् तु राजा व्याख्यातवान्- 'प्रतिराभिमुख्येन वर्तते तेनाभिमुख्येन विषयाध्यवसायः प्रत्यक्षम्' इति तदप्यनुमानादावस्त्येव । घटोऽयमितिवदग्निमान् पर्वत इत्याभिमुख्येनैव प्रतीतेः । स्पष्टता तु सर्वसंविदा स्वविषये विद्यते एव । अथ मन्यसे सामान्यविहितस्य विशेषेण बाधादनुमानादिव्यावृत्तिः सेत्स्यति । यद्येवं प्रत्यक्षलक्षणमिदानीमव्याकारणीयमेव, शब्दलिङ्गग्रहणे वर्णिते सति तद्वैलक्षण्यादेव प्रत्यक्षं ज्ञास्यते
इति । न्यायमंजरी ।। 3२ 'तल्लिङ्गलिङ्गिपूर्वकम्' इति लिङ्गं व्याप्यम् । लिङ्गि व्यापकम् । ..येन च
प्रतिबद्धं तद् व्यापकम् लिङ्गलिङ्गिग्रहणेन च विषयवाचिना विषयिणं प्रत्ययमुपलक्षयति । धूमादिाप्यो बह्नयादिापक इति. यः प्रत्ययस्तत्पूर्वकम् । लिङ्गिग्रहणं चावर्तनीयम्। तेन लिङ्गमस्यास्तीति पक्षधर्मताज्ञानमपि दर्शितं भवति । तद् व्याप्यव्यापकभावपक्षधर्मताज्ञानपूर्वकमनुमानमिति अनुमानसामान्यं लक्षितम् । सां०
त० कौ० ५ । 33 व्याप्तिदर्शनाद् व्यापकज्ञानमनुमानं प्रमाणमित्यर्थः .। अनुमितिस्तु पौरुषेयो बोध
इति। सां० प्र० भा० १. १०० । . 3४ साध्यावधारणं प्रतिज्ञा । युक्तिदी० ६ । 3५ साधनसमासवचनं हेतुः, साध्यतेऽनेनेति साधनं लिङ्गम, समासः संक्षेपः, साधनस्य
समासवचनं साधनसमासवचनम् । लिङ्गनिर्देशमानं हेतुः । युक्तिदी० ६ । 35 उदाहरणं त्वत्र निदर्शनं दृष्टान्तः, तस्य साध्येन सहभावित्वनिदर्शनं दृष्टान्तः । .
युक्तिदी० ६ । 3७ साध्यदृष्टान्तयोरेकक्रियोपसंहार उपनयः । युक्तिदी० ६ । 3८ हेतुदृष्टान्तोपसंहारापेक्षया पुनरभ्यासस्तन्निगमनम् । युक्तिदी० ६ । 3८ तस्य पुनरवयवाः जिज्ञासा-संशय-प्रयोजन-शक्यप्राप्ति-संशयव्युदासलक्षणाश्च
व्याख्याङ्गम, प्रतिज्ञा-हेतु-दृष्टान्तोपसंहार-निगमनानि परप्रतिपादनाङ्गमिति ।..
युक्तिदी० ६ । ४० युक्तिदी० ६ । ४१ माठरवृत्ति ५ ।