________________
૧૯૨
ષડ્રદર્શન ४२ न्यायभाष्य १.१.३२ । ४3 सामान्यतो लक्षितमनुमानं विशेषतस्त्रिविधम्-पूर्ववत, शेषवत्, सामान्यतोदृष्टं च ।
तत्र प्रथमं तावद् द्विविधम्-वीतमवीतं च । अन्वयमुखेन प्रवर्तमानं विधायक वीतम्, व्यतिरेकमुखेन प्रवर्तमानं निषेधकमवीतम् । तत्रावीतं शेषवत् ।...वीतं च
द्वेधा पूर्ववत् सामान्यतोदृष्टं च । सां० त० को० ५ । ४४ तत्रैकं दृष्टस्वलक्षणसामान्यविषयं यत् तत् पूर्ववत् । पूर्व प्रसिद्धं
दृष्टस्वलक्षणसमान्यमिति यावत् तदस्य विषयत्वेनास्त्यनुमानस्येति पूर्ववत् । यथा धूमाद् वहिनत्वसामान्यविशेषः पर्वतेऽनुमीयते तस्य च वह्नित्वसामान्यस्य स्वलक्षणं
वह्निविशेषो दृष्टो रसवत्याम् । सां० त० को० ५। ४५ अपरं च वीतं सामान्यतोदृष्टम् अदृष्टस्वलक्षणसामान्यविषयम, यथेन्द्रियविषयमनु
मानम् । अत्र हि रूपादिविज्ञानानां क्रियात्वेन करणवत्त्वमनुमीयते । यद्यपि करणत्वसामान्यस्य छिदादौ वास्यादि स्वलक्षणमुपलब्धम्, तथापि यज्जातीयस्य रूपादिज्ञाने करणत्वमनुमीयते तज्जातीयस्य करणस्य न दृष्टं स्वलक्षणं प्रत्यक्षेण । . इन्द्रियजातीयं हि तत्करणम्, न चेन्द्रियत्वसामान्यस्य स्वलक्षणमिन्द्रियविशेषः प्रत्यक्षगोचरोऽर्वादृशाम्, यथा वहिनत्वसामान्यस्य स्वलक्षणं वह्निः । सां० त०
कौ० ५ । ४६ इतश्च नार्थान्तरत्वं तन्तुपटयोः संयोगाभावात्, अर्थान्तरत्वे हि संयोगो दृष्टो यथा .. कुण्डबदरयोः, न चेह संयोगः, तस्मान्नार्थान्तरत्वमिति...तान्येतान्यभेदसाधनान्यवीतानि ।
सां० त० कौ० ९ । ४७ तत्रावीतं शेषवत् । शिष्यते परिशिष्यत इति , शेषः, स एव विषयतया
यस्यास्त्यनुमानज्ञानस्य तच्छेषवत् । सां० त० को० ५ । ४८ न्यायभा० १. १. ५ । ४८ अनुमानं त्रिःप्रकारमाचार्यैर्व्याख्यातम्-पूर्ववत्, शेषवत् सामान्यतोदृष्टं च । तत्र
पूर्वमिति कारणमुच्यते । यस्य हि यत्कारणं स लोके तत्पूर्वक इत्युच्यते; यथा तन्तुपूर्वकः पटो देवदत्तपूर्वको यज्ञदत्त इति । पूर्वमस्यास्तीति पूर्ववत् । शेष इति विकारो नाम, शिष्यत इति कृत्वा...शेषोऽस्यास्तीति शेषवत् ।...यदा पणं दृष्ट्वा
शालुकं प्रतिपद्यते, अङ्कुरं वा दृष्ट्वा बीजमिति तथा शेषवत् । युक्तिदी० ५। ५० न्यायभा० १.१.५ । ५१ शेषवत् यथा-समुद्रादेकं जलपलं लवणमासाद्य शेषस्याप्यस्ति लवणभाव इति ।
गौडपादभाष्य ५ । ५२ योगभाष्य १.७ । तथा तत्त्ववैशारदी । ५3 सां० का० ५ ।