________________
૧૯૦
પદર્શન दृष्टमित्यभ्युपेयते, तेन रागादिविषयं विज्ञानमनिन्द्रियत्वात् प्रत्यक्षं न प्राप्रोति । तस्योपसङ्ख्यानं कर्तव्यम् । उच्यते-न तीदं प्रतिग्रहणमिन्द्रियविशेषणं विषयं विषयं प्रति यो वर्तते तस्मिन् योऽध्यवसायस्तद् दृष्टमिति । किं तर्हि ?
अध्यवसायविशेषणं विषयं विषयं प्रति योऽध्यवसाय इति । युक्तिदी० ५ । १८ ...एकशेषनिर्देशात् सिद्धम् । एवं तर्हि प्रतिविषयाध्यवसायश्च प्रतिविषयाध्यवसायश्च
प्रतिविषयाध्यवसाय इति सरूपाणामेकदेशः करिष्यते । तत्रैकेन बहिरङ्गस्येन्द्रियस्य परिग्रहः, द्वितीयेनान्तःकरणस्य रागादिविषयं...यद् विज्ञानं तत् संगृहीतं भवतीति व्याख्यातं प्रत्यक्षम् । युक्तिदी० ५ ।। अत्राध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति । संशयस्यानवस्थितग्रहणेनानिश्चितरूपत्वात् । निश्चयोऽध्यवसाय इत्यनान्तरम् ।। विषयग्रहणेन च असद्विषयं विपर्ययमपाकरोति । प्रति'-ग्रहणेन च इन्द्रियार्थसन्निकर्षसूचनादनुमानस्मृत्यादयः
अपाकृता भवति । सां० त० को० ५ । २१ सां० त० कौ० २७ । २२ सां० त० को० ३० । . २3 कश्चित् तु 'निर्विकल्पकं ज्ञानमेवालोचनमिन्द्रियजन्यं च भवति, सविकल्पकं तु
मनोमात्रजन्यम्' इति श्लोकार्थमाह । तन्त्र । योगभाष्ये १.७ व्यासदेवैर्विशिष्टज्ञानस्याप्यन्द्रियकत्वस्य व्यवस्थापितत्वात्, इन्द्रियैः विशिष्टज्ञाने बाधकाभावाच्च । सां० प्र० भा० २. ३२ । इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् द्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् ।
व्यासभा० १. ७ । सां० प्र० भा० २.३० ।। २४ History of Indian Philosophy, Dasgupta, Vol. I, p. 262 २५ तदप्यसत् । सूत्र इन्द्रियवृत्तीनामेव क्रमिकाक्रमिकत्ववचनात्, न बुद्ध्यहङ्कारवृत्त्योः
प्रसङ्गोऽप्यस्ति । सां० प्र० भा० २. ३२ । । २६ युक्तिदी० २८ । २७ श्रोत्रादिवृत्तिरविकल्पिका प्रत्यक्षमिति । ...अविकल्पिका नामजात्यादिकल्पनारहिता । २८ व्यासभा० १. ७ । २८ श्रोत्रादिवृत्तिरिति वार्षगणाः...आह-यदीयं श्रोत्रादिवृत्तिरेव प्रत्यक्षमित्यभ्युपेयते क एवं
सति दोषः स्यात् ? रागादिविषयं यद् विज्ञानं योगिनां च प्रातिभं यद्विज्ञानमुत्पद्यते तदुपसङ्ख्येयं स्यात् । कुतः ? न हि सुखादयः श्रोत्रादिवृत्तिप्रायाः, योगिनां
चानिन्द्रियं ज्ञानमिति । युक्तिदी० ५ । 3० यो हि जानाति बुद्धयतेऽध्यवस्यति न तस्य तत्फलमर्थदर्शनमचेतनत्वाद् महतः ।
यस्य चार्थदर्शनं न स जानाति न बुध्यते नाध्यवस्यतीति भिन्नाधिकरणत्वं