________________
૧૮૯
સાંખ્યદર્શન ११ सां० का० ३५ । १२ अध्यवसायो बुद्धिः । सां० का० २३ । १३ सां० त० कौ० ४-५ । १४ योगवार्तिक १. ७ । १५ एतेन पुरुषाणां कूटस्थविभुचिदूपत्वेऽपि न सर्वदा सर्वाभासनप्रसङ्गः । असङ्गतया
स्वतोऽर्थाकारत्वाभावात् । अर्थाकारतां विना संयोगमात्रेणार्थग्रहणस्यातीन्द्रियादिस्थले बुद्धावदृष्टत्वादिति । पुरुषे च स्वस्वबुद्धिवृत्तीनामेव प्रतिबिम्बार्पणसामर्थ्यमिति फलबलात् कल्प्यते । यथा रूपवतामेव जलादिषु प्रतिबिम्बनसामर्थ्य नेतरस्येति । प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव नः । प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् ॥ प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते । साक्षाद् दर्शनरूपं च साक्षित्वं वक्ष्यति स्वयम् ।....सां० प्र० भा० १. ८७ । अतो बुद्धेरेव साक्षी पुरुषोऽन्येषां तु
द्रष्ट्रमात्रमिति । सां० प्र० भा० १. १६१ । १६ कश्चित् तु 'बुद्धिगतया चिच्छायया बुद्धेरेव सर्वार्थज्ञातृत्वमिच्छादिभिर्ज्ञानस्य
सामानाधिकरण्यानुभवादन्यस्य ज्ञानेनान्यस्य प्रवृत्त्यनौचित्याच्च' इत्याह । तदात्माज्ञानमूलकत्वादुपेक्षणीयम् । एवं हि बुद्धेरेव ज्ञातृत्वे 'चिदवसानो भोगः' इत्यागामिसूत्रद्वयविरोधः । पुरुष प्रमाणाभावश्व पुरुषलिङ्गस्य भोगस्य बुद्धावेव स्वीकारात् । न च प्रतिबिम्बान्यथानुप्रपत्त्या बिम्बभूतः पुरुषः सेत्स्यतीति वाच्यम् । अन्योन्याश्रयात् पृथग् बिम्बसिद्धौ बुद्धिस्थचैतन्यस्य प्रतिबिम्बतासिद्धिः, प्रतिबिम्बतासिद्धौ च तत्प्रतियोगितया बिम्बसिद्धिरिति । अस्मन्मते च 'ज्ञातृतया पुरुषसिद्ध्यनन्तरं तस्य ज्ञेयत्वान्यथानुपपत्त्या प्रतिबिम्बसिद्धौ नान्योन्याश्रयः । अथ वृत्तिसाक्षितया बिम्बरूपश्चेतनः सिद्ध्यतीति चेत् तर्हि · साक्षिण एव प्रमातृत्वमप्युचितम् । उभयोतृित्वकल्पने गौरवात् । वृत्तिज्ञान-घटज्ञानयोः सामानाधिकरण्यानुभवाच्च । किञ्चैवं सति बुद्धरेव भोक्तृत्वे भोक्तभावादित्यागाभिसूत्रेण भोक्तृतया पुरुषसाधनं विरुध्येत । अथ बुद्धिगतचिच्छायारूपेण सम्बन्धेन बिम्बस्यैव ज्ञानं न तु चितौ बुद्धिप्रतिबिम्बः कल्प्यत इत्येतावन्मात्रे चेत् तस्याशयो वर्ण्यते, तदप्यसत्...अस्माभिश्चितौ बुद्धिप्रतिबिम्ब एव सर्वार्थभानहेतुतया सम्बन्धः कल्पित इति । यच्चोक्तमन्यस्य ज्ञानेनान्यस्य प्रवृत्त्यनुपपत्तिरिति, तदपि न । अकर्तुरपि फलोपभोगोजाधवत् इत्यागामिसूत्रेण ज्ञानप्रवृत्त्योर्वैयधिकरणस्य दृष्टान्तेनोपपादयिष्यमाणत्वात् । सां० प्र० भा० १. ९९ । प्रतिबिम्बस्य तुच्छतयाऽर्थभानरूपत्वानुपपत्तेश्च, प्रतिबिम्बस्य प्रकाशाद्यर्थक्रियाकारितायाः क्वाप्यदर्शनाच्च...बुद्धेश्चिच्छायाऽऽपत्तिश्चाहमित्यादिरूपैश्चितौ
भानार्थमेवेष्यते, बुद्ध्यारोहं विना साक्षात्स्वभाने कर्मकर्तृविरोधात् । योगवा० १.७ । १७ युक्तिदी० ५ । १८ आह-रागाधुपसङ्ख्यानम् । यदि सन्निकृष्टेन्द्रियवृत्त्युपनिपाती योऽध्यवसायस्तद्