________________
૧૮૮
ષદર્શન પાદટીપ
१ तच्चासंदिग्धाविपरीतानधिगतविषया चित्तवृत्तिः । बोधश्च पौरुषेयः फलं प्रमा । तत्साधनं प्रमाणमिति । एतेन संशयविपर्ययस्मृतिसाधनेष्वप्रसङ्गः । सां० त० कौ० - ४ । अनेन ( = विषयाकारधारिणा बुद्धितत्त्वेन ) यश्चेतनाशक्तेरनुग्रहस्तत् फलं प्रमबोध इति । बुद्धितत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यवसायोऽप्यचेतनो घटादिवत् । एवं बुद्धितत्त्वस्य सुखादयोऽपि परिणामभेदा अचेतनाः, पुरुषस्तु सुखाद्यनुषङ्गी चेतनः । सोऽयं बुद्धितत्त्ववर्तिना ज्ञानसुखादिना तत्प्रतिबिम्बितस्तच्छायापत्त्या ज्ञानसुखादिमानिव भवतीति चेतनोऽनुगृह्यते । चितिछायापत्त्या चाचेतनाऽपि बुद्धिस्तदध्यवसायोऽप्यचेतन श्वेतनवद् भवतीति । सां० त० कौ० ५ । २ ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम् ? न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियते ।... न हि पुरुषगतो बोधो जन्यतेऽपि तु चैतन्यमेव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्याऽर्थाकारया तदाकारतामापद्यमानं फलम् । तत्त्ववै० १. ७ ।
3 वृत्तिरूपस्य करणस्य फलं पुरुषनिष्ठश्चित्तवृत्तिविषयको बोध... प्रतिबिम्बस्य तुच्छतयाऽर्थभानरूपत्वानुपपत्तेः । योगवा० १. ७ । सा च वृत्तिरर्थोपरक्ता प्रतिबिम्बरूपेण पुरुषारूढा सती भासते, पुरुषस्यापरिणामितया बुद्धिवत् स्वतोऽर्थाकारत्वासम्भवात्, अर्थाकारताया एव चार्थग्रहणत्वात् अन्यस्य दुर्वचत्वादिति । प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव नः । प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् || सां० प्र० भा० १.८७ । दुखो सां० प्र० भा० १. ९९ ।
४ सां० का० ४ ।
५ प्रत्यक्षस्य प्रमाणेषु ज्येष्ठत्वात्, तदधीनत्वाच्चानुमानादीनाम्, सर्ववादिविप्रतिपत्तेश्च...। सां० त० कौ० ५ ।
६ विसिन्वन्ति विषयिणमनुबधन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावद् विषयाः पृथिव्यादयः सुखादयश्च । सां० त० कौ० ५ । ... सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । योगभा० १. ७ ।
७ विषयं विषयं प्रतिवर्तत इति प्रतिविषयतम् (१) इन्द्रियम् (२) वृत्तिश्च सन्निकर्षः (३) अर्थसन्निकृष्टमिन्द्रियमित्यर्थः । सां० त० कौ० ५ ।
८ बुद्धीन्द्रियाणि च प्रकाशयन्ति । सां० त० कौ० ३२ ।
८ रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । सां० का० २८ ।
१० उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तमोऽभिभवे सति यः सत्त्वसमुद्रेकः सोऽध्यवसाय इति (बुद्धि)वृत्तिरिति ज्ञानमिति चाख्यायते । सां० त० कौ० ५ । अध्यवसायो बुद्धेरसाधारणो व्यापारः । सां० त० कौ० २३ ।