Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
****************+++**
www.kobatirth.org
एवं यदि प्रतिपद्यते तदा गृह्यते अथ न प्रतिपद्यते तदा न गृहीतव्यः । किन्त्वन्यो याच्यते । अथान्यो याच्यमानो न लभ्यते, तदा स एव परिगृह्य केवलं परिशादौ यतना विधेया । एषा अनुज्ञापने यतना गृहीते यतना इयं वच्यमाणा भवति तामेवाहकास पुष्पव्व चेतिमिमं जाहितं भवे सुन्नो । श्रमुगस्सवि सोवि सुन्नो ताहे घरम्मी ठवेजाहि ॥ ३६॥ कहि एत्थ चैत्र ठाणे पासे उवरिं च तस्स पुंजस्त । श्रहवा तत्थेवत्थ उ ते विहु नियलगा म्हं ॥३७॥
गृहीते संस्तारके पुनः पृच्छति कार्यसमाप्तौ कस्य पुनरर्पयितव्य एप संस्तारकः । एवमुक्ते स यदि ब्रूते ममैव समर्पयितव्यः इति तदा वक्तव्यम् त्वं भवसि शून्यः किमुक्तं भवति, यदायूयं न दृश्यध्वे तदाकस्य समर्पणीयः, अथ ब्रूयाद् अमुकस्य, ततो भूयपि वक्तव्यं सोऽपि यदा शून्यो भवति न दृश्यते इत्यर्थः । तदा कस्मै समर्पणीयः । अथ ब्रूयादत्रैव गृहे स्थापयेत् ततः पुनरपि पृच्छेत् कतरस्मिन्नवकाशे स्थापनीयः । एवमुक्ते यदि स ब्रूयाद् यतोऽवकाशात् गृहीतोऽत्रैव स्थाने स्थापयेत् यदि वा वदेत् अत्रैव स्थाने च्छिने प्रदेशेऽथवा यतोऽवकाशात् गृहीतस्तस्य पार्श्वे अथवा यस्य पुञ्जस्योपरिस्थितो गृहीतस्तस्य पुञ्जस्योपरिस्थापयेत् यदि वा यत्र यूयं नयथ तत्रैव तिष्ठतु । यतो यस्योपाश्रये यूयं वसथ तेऽपि हु निश्चितमस्माकं निजकाः । किं बहुना यत्र वदति तत्र नीत्वा स्थापयितव्यः ।
एसा गहिए जया एतो गेण्हंत ए उ वुच्छामि । एगोश्चिय गच्छे पुण संघाडो गेरहभिग्गहितो ॥३८॥
एषा अनन्तरोदिता गृहीते यतना । अत ऊर्ध्व गृह्णाति यतनां वच्यामि प्रतिज्ञातमेव करोति । गच्छे पुनरेक एवं
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*@*****‹-•*********O*•*←→•*••*•
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124