Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भी व्यवहारस्त्रस्य पीठिकानंतर।
भष्टम विभागः। अ. उ.
तं साधु पथि स्थितं दृष्ट्वा पान्था अन्येन पथा ब्रजन्ति तथा च सति काया हरितकायादयो विराध्यन्ते । तथा स एव भवति पन्थास्ततो महान् प्रवर्तनादोषः। तथा पथि स्थितं दृष्ट्वा कस्याप्यचियत्तमप्रीतिरुपजायते ततः स ब्रूते-अहो मुण्डः पन्थानं रुध्वा स्थितः । तस्य श्रुत्वा कोऽप्यसहनोऽसंखडं कलहं कुर्यात् । आदिशद्वात् युद्धमपि । तथा च सति भाजनविराधना। आदिशद्वादनागाढादिपरितापना भावतः शरीर विराधना च । सम्प्रति धूलीउक्खणउवहिविणासो इति व्याख्यानयात ॥ सरक्खधूलीचेयणे पत्थिवाणं विणासणा । अचित्तरेणुमइलंमि दोसो धोव्वण धोव्वणे ॥ १७३ ॥ ____ सह रजसा श्लक्ष्णधूलिरूपेण वर्तते इति सरजस्का स चासौ धूलिश्च तस्याश्चैतन्यो तस्यां चेतनायामित्यर्थः । पादनिक्षेपण उत्खनने शरीरादिसंस्पर्शतः पार्थिवानां पृथिवीकायानां विनाशनं भवेत् । अथ सोऽचित्तोरेणुस्तर्हि तेनाचित्तेन रेणुना मलिने उपधौ यदि प्रक्षालयति तथापि दोषः प्राणविराधनापत्तेर्वा (व) कुशवसंभवाचाप्रक्षालनेऽपि दोषाः। प्रवचनहीलनाद्यापत्तेः अन्यच्चवेगाविद्वा तुरंगादी सहसा दुक्खनिग्गहा । परम्मुहं मुहं किच्चा पंता ठाणं पणोल्लए ॥ १७४ ॥ ___ वेगाविद्वा वेगेनागच्छन्तस्तुरगादय आदिशद्वात् बलीवादिपरिग्रहः सहसा दुःखन निगृह्यन्ते निवार्यन्ते इति दुःखनिग्रहा निवारयितुमशक्या इति भावस्ततः शरीरविराधना भाजनविराधना च तथा केचित् प्रान्ताः पराङ्मुखं कृत्वा पथि | स्थितं प्रणुदेयुर्गाथायामेकवचनं प्राकृतत्वात् । प्राकृते हि वचनध्यत्ययोपिभवति । किंच
॥३२॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124