Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भेदोऽनागाढादिः परितापना च स्यात् । तथा पादनिक्षेपेण धून्या उत्खननं भवतीति तेन च उपधेविनाशो मलिनत्वभावात् ते एवानन्तरादितदोषाः सविशेषाः शङ्कादयो विचित्यपि उच्चारादि त्यजत्यपि, तथाहि-उचारादि पथि कुर्वतो लोकस्य शङ्कोपजायते किमनेन गुदंनिलंपितमुत नेति । आदिशद्वात् किमेष स्तेनकः किं चाश्रमणोऽभिचारको हेरिको वा इत्यादि परिग्रहः । एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेवगाथा विवरीषुः प्रथमतो मिथ्यात्वद्वारं विवृणोति-१६६ पंथे न ठाइयवं बहवो दोसा तहिं पसजंति । अप्भुठियत्ति गुरुगा जं वा आवजती जत्तो ॥ १७ ॥ पथि साधुना विश्रमणनिमित्तं न स्थातव्यं यतस्तत्र बहवो दोषाः प्रसजन्ति । तानेवाह-साधुना धिग्जायानां पथि प्रदत्ते अभ्युत्थिताएते अभ्युत्थानमेतेषां कृतमिति लोकप्रतिपत्तौ तस्य प्रायश्चित्तं चत्वारो गुरुकाः । यच्चस्वयं दृष्ट्वा यतो वा श्रुत्वा मिथ्यात्वमापद्यते । अभिनवधर्मा मिथ्यादृष्टिवों गाढतरं मिथ्यात्वमधिगच्छति तनिष्पन्नं च तस्य प्रायश्चित्तं धिग्जातीयानां चात्मबहुमानसंभवस्तथा चाहजाणंति अप्पणो सारं एते समणवादिणो । सारमेएसि लोगो य मप्पणो न वियाणई ॥ १७१ ॥ ये आत्मानं श्रमणमिति वदन्ति ते आत्मनः सारं परमार्थतत्वं जानन्ति यथा अस्मभ्यमेते गरीयांस इति । यस्त्वेतेषामयं लोकः स सारमर्थतत्वमात्मनो न विजानाति अविदितपरमार्थत्वात् । गतं मिथ्यात्वद्वारम् अन्यपथद्वारमाहअपहेण वयंते कायासो चेव वा भवे पंथो । अचियत्त संखडादी भाणाइ विराहणा चेव ॥ १७२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124