Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra **++ www.kobatirth.org मन्ये यथा अमीषां वैहारिकाणां जल्लेन शरीरोत्थेन. मलेनमलिनमङ्गं यथा च मलिनाथ पलट्टास्तथा सर्वेषामेकं पात्रं भवति तत एकपात्रग्रहणे वैहारिकालक्षणं कृतं भवति । अत्राचार्य आह जेसि एसुवदेसो तित्थयराणं तु कोविया थाणा । चउरोय श्रणुग्धाया णेगे दोसा इमे हुंति ॥२१८॥ येषामेष उपदेशस्तैस्तीर्थकराणामाज्ञा कोपितास्तीर्थ करैः पात्रद्वयस्य प्रत्येकमनुज्ञातात्तेषां च प्रायश्चित्तं चत्वारो मासाः अनुद्घाता गुरवः । यत इमे वच्यमाणा अनेके दोषा भवन्ति तानेवाह श्रद्धा गेलने पर वयायभिन्नमायरिए । श्रादेस बालवुड्डा सेहाखमगाय परिचत्ता ॥ २१६ ॥ _अध्वनि ग्लानत्वेन च आत्मा परश्च तैस्त्यक्तः । इयमत्र भावना ये अध्वनिर्गता विस्मरणतः पतितोपधयः स्तेनापहृतोपधयो वा भिन्नपात्रा वा तद्विषये आत्मा परो वा त्यक्तो भवति । यदि तेषां पात्रं ददाति तदा आत्मा त्यक्तः पात्राभावे भिक्षाटनासंभवात् । अथ न ददाति अध्वनिर्गतास्त्यक्ता अपि बहूनामेषां पात्रमित्युक्तं तत एकेन पात्रेण यदानीतं न तेन बहवोऽध्वनिर्गताः संस्तरेयुः तथा ग्लानविषयेऽप्यात्मापरो वा त्यक्तः स्यात्तथाहि - यदि ग्लानस्य ददाति तत्पात्रं तदात्मा त्यक्तोऽथ न ददाति तदापरो ग्लान इति । अन्यस्याध्वनिर्गतानां ग्लानस्य वा तत्पात्रार्पणे स्वयं कुलालभाण्डं याचनीयं चानीतं यदिकथमपि भिद्येत तदा तन्मून्यं दाप्येत कलहादयो वा दोषाः स्युः । वयायत्ति व्रतान्यपि च परित्यक्तानि स्युर्यतः प्रत्येक पात्रग्रहणे एकत्र संसक्तभक्तं पानं वा गृहीत्वा प्रत्युपेक्षते प्रत्युपेक्ष्यान्यत्र प्रक्षिपति । बहूनां त्वेकपात्राभ्यनुज्ञाते For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir R-63+******+*-*

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124