________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भेदोऽनागाढादिः परितापना च स्यात् । तथा पादनिक्षेपेण धून्या उत्खननं भवतीति तेन च उपधेविनाशो मलिनत्वभावात् ते एवानन्तरादितदोषाः सविशेषाः शङ्कादयो विचित्यपि उच्चारादि त्यजत्यपि, तथाहि-उचारादि पथि कुर्वतो लोकस्य शङ्कोपजायते किमनेन गुदंनिलंपितमुत नेति । आदिशद्वात् किमेष स्तेनकः किं चाश्रमणोऽभिचारको हेरिको वा इत्यादि परिग्रहः । एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेवगाथा विवरीषुः प्रथमतो मिथ्यात्वद्वारं विवृणोति-१६६ पंथे न ठाइयवं बहवो दोसा तहिं पसजंति । अप्भुठियत्ति गुरुगा जं वा आवजती जत्तो ॥ १७ ॥
पथि साधुना विश्रमणनिमित्तं न स्थातव्यं यतस्तत्र बहवो दोषाः प्रसजन्ति । तानेवाह-साधुना धिग्जायानां पथि प्रदत्ते अभ्युत्थिताएते अभ्युत्थानमेतेषां कृतमिति लोकप्रतिपत्तौ तस्य प्रायश्चित्तं चत्वारो गुरुकाः । यच्चस्वयं दृष्ट्वा यतो वा श्रुत्वा मिथ्यात्वमापद्यते । अभिनवधर्मा मिथ्यादृष्टिवों गाढतरं मिथ्यात्वमधिगच्छति तनिष्पन्नं च तस्य प्रायश्चित्तं धिग्जातीयानां चात्मबहुमानसंभवस्तथा चाहजाणंति अप्पणो सारं एते समणवादिणो । सारमेएसि लोगो य मप्पणो न वियाणई ॥ १७१ ॥
ये आत्मानं श्रमणमिति वदन्ति ते आत्मनः सारं परमार्थतत्वं जानन्ति यथा अस्मभ्यमेते गरीयांस इति । यस्त्वेतेषामयं लोकः स सारमर्थतत्वमात्मनो न विजानाति अविदितपरमार्थत्वात् । गतं मिथ्यात्वद्वारम् अन्यपथद्वारमाहअपहेण वयंते कायासो चेव वा भवे पंथो । अचियत्त संखडादी भाणाइ विराहणा चेव ॥ १७२॥
For Private and Personal Use Only