Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवरिय श्रमो आगतो तेण विसो चेव परणतितो। तत्थ दिन्नो अन्नस्स सउ विपरिणामेइ तह चेव ॥५९॥ प्रथम संघाटकेन संस्तारको याचित्ते लब्धेनेतुमशक्यतया तत्रैव मुक्तेन नवरिकेवलमन्यः सङ्घाटक आगतस्तेनापि तत्र स एव संस्तारकः प्रणयितो याचितः संस्तारकस्वामिनोक्तं दत्तोऽन्यस्य ततस्तथैव तं विपरिणामयति । यथा सर्वदैवाहं तव प्रियस्ततो मयि सति किमन्यस्मै तव दातुमुचितं तस्माद्यदि स आगच्छति तर्हि तस्य प्रतिषिद्ध्य पश्चान्मम दातव्य इति । एवं यदि विपरिणम्यानीतो भवति ततः पूर्वतमस्था भवति नेतरस्य तदेवमुक्तं विपरिणामद्वारमधुना धर्मकथाद्वारं तथैव प्रथमसंघाटकेन संस्तारके याचिते लब्धे नेतुमशक्यतया तत्रैव मुक्तेऽन्यसङ्घाटकस्तत्र समागत्य तं संस्तारकं याचितवान् । ततः संस्तारकस्वामिनोक्तं दत्तोऽन्यस्मै ततो धर्मकथाकथनतस्तमावयं ब्रूते । यथा तस्य प्रतिषिध्यायं संस्तारको मह्यं देयः एवमानीतः पूर्व संघाटकस्य स आभवति नेतरस्य । तथा येन प्रथमसंघाटकेन संस्तारको याचितो लब्धश्रुतस्य तद्विषये भावः कुतश्चित्कारणात् व्यवच्छिन्नोऽन्येन वाऽशठभावेन याचितो लब्धश्च तस्या भवति न प्रथमसंघाटकस्य तस्य तद्विपयभावव्यवच्छेदात तथा प्रथमसंघाटकेन संस्तारके याचिते लब्धे नेतुमशक्यतया तत्रैवमुक्तेऽन्यः संघाटकस्तत्र समागत्य संस्तारकं याचते । तत्र यदि अन्यो मनुष्यो अन्यं संस्तारकं दद्यात् स वा प्रथमसंघाटकयाचितोऽन्यं तदा स तस्य कल्पते यः पुनः प्रणयितः स तेनान्येन वा दीयमानो न कन्पते । तथा च विपरिणामद्वारं मुक्त्वा शेषद्वाराणामतिदेशमाहअहभावो लोयण धम्मकहणवोच्छिन्नमन्नदाराणि । नेयाणि तहाचेव उ जहेवउ छट्ट दारम्मि ॥६॥ - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124