Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विपरिणामे तहच्चिय अन्नोगंतूण तत्थ नायगिहं । श्रासन्नयरो गिण्हइ मित्तो अन्नोवि मं मोत्तुं ॥३॥ अन्नेवि तस्स नियगा देहिहि अन्नं य तस्स मम दाउं । दुल्लभ लाभ मणाउं ठियंमि दाणं हवति सुद्धं ॥४॥ सन्नायगिहे अन्नो न गेगहए तेण असमणुमातो। सत्तिविहवेसत्तीएय सोविहु नवि तेण निव्विसति ६५
तेन साधुना मया भदन्त ज्ञातिगृहे संस्तारकः प्रतिज्ञप्तोस्तित, तस्तस्मिन्नवेदिने समानेष्यते इत्यालोचितं श्रुत्वा अन्य आसन्नतरो मित्ररूपो वा ज्ञातिगृहं गत्वा तत्र तथैव संस्तारकस्वामिनं विपरिणामयति । स चान्यो विपरिणम्य गृहाति इदं वक्ष्यमाणमुक्त्वा तदेवाह-अन्ने वीत्यादि अन्येऽपि च तस्य निजकाः संस्तारकं दास्यन्ति यदि वा ममामु संस्तारकं दत्वा तस्यान्यं संस्तारकं दद्याः। अथवा अस्मादृशेज्ञातोंच्छवृत्तिजीविनि यत् दुर्लभदानं दीयते तद्भवति शुद्धमिह परलोकाशंसा विप्रमुक्तत्वात् तथा स्वज्ञातिगृहेऽन्योऽसंज्ञातिकस्तेन संस्तारकस्वामिना असमनुज्ञातो न गृह्णाति । अहं पुनः संज्ञातिकस्ततो व शय्यामेकवारमनुज्ञातस्यापि संस्तारकस्य ग्रहणे तथा सति विभवे यदि वा विभवाभावेऽपि स्वशक्त्या सोऽपि सज्ञातिकस्तेनात्मीयेन सज्ञातिकेन विना न निर्विशति उपभुङ्कते भक्तपान संस्तरकादि तस्मान्मम दातव्य एष संस्तारक इति एवं विपरिणम्यानीतः पूर्व संघाटकस्या भवति न येनानीतस्तस्यगतं विपरिणामद्वार मधुना धर्मकथाद्वारमुच्यते तथैवालोचनामाकान्यः संघाटक स्तत्रागत्य धर्मकथामारभते । ततो धर्मकथया तमत्यन्तमावर्त्य तं संस्तारकं याचते । स धर्मकथाश्रवणोपरोधतो न निषेधुं शक्त इति तसै दत्तवान् सोऽपि पूर्वसंघाटकस्या भवति, न येनानीतस्तस्य । गतं धर्मद्वारं । सम्प्रति व्यवच्छिनद्वारमाह
For Private and Personal Use Only
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124