Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम विभागः। अ०
भी व्यवहारसूत्रस्य पीठिकानंतरः। ॥२५॥
समनुज्ञातव्येष्वनुवर्तमानोष्विदमपि सूत्रं समनुज्ञातसंस्तारकादिग्रहणविषये भवति, अपवादतो अननुज्ञाप्य संस्तारकग्रहणे यदि संस्तारकस्वामी प्रान्तो रुष्टो भवेत् । तस्मिन् प्रान्तेऽनुलोमवाक् वक्तव्या । अनेन सम्बन्धेनायातस्यास्य व्याख्या-न कल्पते निम्रन्थानां निर्ग्रन्थीनां वा प्रतिहारिकं शय्यासंस्तारकं सर्वात्मनाअपेयित्वा द्वितीयमप्यवग्रहमनुज्ञाप्याधिष्ठातुमनुज्ञाप्य पुनः कल्पते । एवं सागारिकसत्केऽपि शय्यासंस्तारके द्वावालापको वक्तव्यौ । तथा न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वमेवावग्रहमवग्रहीतुं ततः पश्चादनुज्ञापयितुं कल्पते निर्ग्रन्थानां निग्रन्थीनां वा पूर्वमेवावग्रहमनुज्ञापयितुं पश्चादवग्रहीतुमिति । अथ पुनरेतत् जानीयात् इह खलु निर्ग्रन्थानां निग्रेन्थीनां वा न सुलभः शय्यासंस्तारक इति कृत्वा एवमेवामुना प्रकारेण णमिति वाक्यालंकारे कल्पते पूर्वमेवावग्रहमवग्रहीतुं ततः पश्वादनुज्ञापयितुं तत्रैवं कारणे शय्यासंस्तारकस्वामिना सह संयतानां कलहे आचार्याः संयतान् ब्रुबते-मा चार्याद्वि( भो आयोः )विधा (द्विधातः) कुरुत द्वावपि कुरुत । एके वसति प्रतिगृह्णीय अपरे परुषाणि भाषध्वे तस्मात् क्षम, इत्येवं वचसा अनुकूलेन अनुलोमेनानुलोमयितव्यः स्यादिति । सेज्जासंथारदुगं अणुण्णवेऊण ठायमाणस्स । लहुगो लहुगो लहुगा प्राणादीनिच्छुभणपंतो॥१३६॥
शय्यासंस्तारकद्विकं परिशाट्य परिशाटिरूपं शालादिषु चावग्रहमनुनज्ञाप्य तिष्ठतः प्रायश्चितं लघुकादि तद्यथा-शालादिववग्रहमननुज्ञाप्यतिष्ठतो लघुको मासः परिशाटौ मासलघु अपरिशाटौ चत्वारो लघुकाः तथा आज्ञादय आज्ञाभङ्गदयो दोषाः तथा प्रान्तः कोऽपि रुष्टः सनिच्छुभणं निष्काशनं कुयोत् ।। एयमदिण्णवियारे दिएणवियारे वि सभएवादीसु। तणफलगाणुराणाया कप्पडियादीण जत्थ भवे ॥१३७।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124