Book Title: Sabhashya Vyavahar Sutra Ashtamoddeshak
Author(s): Vakil Keshavlal Premchand Modi
Publisher: Vakil Keshavlal Premchand Modi

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | लब्धो द्वितीयवारं याचिष्यते । एवमवभाषितेऽलब्धेऽव्यवच्छिन्ने च तस्य संस्तारकस्योपरि भावे विकटनं श्रुत्वा अन्यः संघाटकस्तत्र गत्वा याचते लभते च स लब्ध्वानीतः सन् कस्या भवतीत्यत आह-पूर्वस्य येन पूर्वमवभाषितोऽपि न लब्धस्तस्या भवति तद्विषयभावाव्यवच्छेदान्नेतरस्य ॥ सेसाणि जहा दिट्रे अह भावादीणि जाव वोच्छिन्ने। दाराइं जोएज्जा छटे विसेसं तु वुच्छामि ॥५५॥ शेषाणि यथा भावादीनि चत्वारि द्वाराणि यावत् व्यवच्छिन्नद्वारं यथादृष्टे द्वारे पूर्व भावितानि तथा योजयेत् । तद्यथा-एकेन सङ्घाटेन भिचामटता कापि संस्तारको दृष्टो याचितश्च परं न लब्धो द्वितीया संघाटको यथा भावेन तत्र गत्वा तं संस्तारकमानयति स पूर्वसङ्घाटकस्या भवति न येनानीतस्तस्य अन्ये तु ब्रुवते द्वयोरपि संघाटकयोराभवनमधिकृत्य साधारण इति । गतं यथा भावद्वारमधुना विपरिणामद्वारमुच्यते । गुरुसमीपे विकव्यमानमन्यस्य वा संघाटकस्य कथ्यमानं याचितमलब्धं संस्तारकं मह्यं सम्प्रति देहि । अत्रापि पूर्वस्यैव संघाटकस्य स पाभवति न येनानीतस्तस्य । गतं विपरिणामद्वारं । सम्प्रति धर्मकथाद्वारमुच्यते-अग्रेतनेन संघाटकेन याचितेऽलब्धे चान्यः संघाटकस्तत्र गत्वा तं संस्तारकस्वामिनं धर्मकथा कथनेन समावर्य याचते । संस्तारकं स तथा लब्ध्वा नीतः सन पूर्वपूर्वसङ्घाटकस्या भवति न येन पश्चादानीतस्तस्येति गतं धर्मकथाद्वारमधुना व्यवच्छिन्नभावद्वारमुच्यते-प्रथम संघाटकेन संस्तारको याचितो न लब्धस्ततस्तद्विषये भावो व्यवच्छिन्नो गुरुसमीपे च गत्वा तथैवा लोचितं यथा अमुकस्य गृहे संस्तारको दृष्टो याचितश्च परं न लब्धः स तिष्ठतु द्वितीयं वारं न कोऽपि याचिध्यते, एवं व्यवच्छिन्नं भावं ज्ञात्वा योऽन्य संघाटको याचते लभते च स तस्याभवति न पूर्वस्य । तदेवं योजितानि यथा भावा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124