Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः ]
सञ्जीविनी - सुधेन्दुटी कात्रयोपेतम् |
११
संसर्ग रूपो दोषोऽपीति यावत् । वा=अथवा, अग्नौ वहौ, संलच्यते = संदृश्यते, नान्यत्र । (स० - सच्चासच्च सदसती तयोर्व्यक्तिः सदसद्व्यक्तिः तस्या हेतवः सदसद्वयक्तिहेतवः ॥
sto - 'सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्' इत्यमरः । ' व्यक्तिस्तु पृथगात्मता' इत्यमरः । ' हेतुर्ना कारणं वीजम्' इत्यमरः । 'स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम इत्यमरः ॥ 'श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिकेच कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु ॥ मरीचे सिन्धुलवणे क्लीबं स्त्री सारिवौषधौ । अप्रसूताङ्गनायाञ्च प्रियङ्गावपि चोच्यते ॥ यमुनायां त्रियामायां कृष्णत्रिवृतिकौ - धौ । नीलिकायाम्' इति मेदिनी ॥
I
ता०—यथा वह्निमन्तरेण न कैश्चित् सुवर्णस्य गुणदोषौ द्रष्टुं शक्येते तथा सन्तमन्तरेणास्मद्रचितप्रबन्धगुणदोषावपि ।
इन्दुः -- भले और बुरे का विचार करनेवाले पण्डित लोग उसे सुनने के लिए योग्य हैं, क्योंकि सुवर्ण की शुद्धता और श्यामता अग्नि में ही देखी जाती है ॥१०॥ वर्ण्य वस्तूपक्षिपति श्लोकद्वयेन
वैवस्वत मनुर्नाम माननीय मनीषिणाम् |
आसोन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥ ११ ॥
सञ्जी० - वैवस्वत इति । मनस ईषिणो मनीषिणो धीराः विद्वांस इति यावत् ॥ पृषोदरादित्वात्साधुः । तेषां माननीयः पूज्यः । छन्दसां वेदानाम् । 'छन्दः पचे च वेदे च' इति विश्वः । प्रणव ओंकार इव । महीं क्षियन्तीशत इति महीक्षितः क्षितीश्वराः । विधातोरेश्वर्यार्थाक्विप्तुगागमश्च । तेषामाद्य आदिभूतः । विवस्वतः सूर्यस्यापत्यं पुमान्वैवस्वतो नाम वैवस्वत इति प्रसिद्धो मनुरासीत् ॥
अ० - मनीषिणाम्, माननीयः, छन्दसाम्, प्रणवः, इव, महीक्षिताम्, आद्यः, वैवस्वतः, नाम, मनुः, आसीत् ॥ वा० - मनीषिणां माननीयेन छन्दसां प्रणवेनेव महीक्षितामाद्येन वैवस्वतेन मनुनाऽभूयत् ॥
सुधा -- मनीषिणाम् = पण्डितानाम्, माननीयः = पूज्यः, अग्रणीरिति यावत् छन्दसां = वेदानाम्, प्रणवः = ओङ्कारः, इव = यथा, महीक्षितां=धराधीश्वराणाम्, आद्यः = प्रथमः, वैवस्वतः = विवस्वत्पुत्रः, सूर्यपुत्र इति यावद्, नाम = : 'वैवस्वत' इति नाना प्रसिद्धः, मनुः = कश्चिन्मनुः, आसीद् = बभूव ॥
स० - प्रकृष्टो नवः (स्तुतिः ) प्रणवः । छन्दन्तीति छन्दांसि तेषां छन्दसाम् । को० -- ' नाम प्राकाश्य सम्भाव्य क्रोधो पगमकुत्सने' इत्यमरः । 'धीरो मनीषी ज्ञः प्राज्ञः संख्यावान् पण्डितः कविः' इत्यमरः । 'राजा राट् पार्थिवचमाभृन्नृपभूपमहीक्षितः' इत्यमरः । ‘ओङ्कारप्रणवौ समौ इत्यमरः ।
ता०-- यथा वेदानामादिः प्रणवस्तथा राज्ञामादिर्वैवस्वतो मनुरासीत् ॥ इन्दुः-- पण्डितों में पूज्य, वेदों में प्रणव (ओङ्कार) के समान राजाओं में प्रथम 'वैवस्वत' नाम से प्रसिद्ध मनु हुये ॥ ११ ॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149