Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 77
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । __क्रो०-'मुहुः पुनःपुनः शश्वदभीचणमसकृत् समाः' इत्यमरः। 'आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे । परमात्मनि जीवेऽक हुताशनसमीरयोः। स्वभावे' इत्यनेकार्थसङ्ग्रहः। ___ता०-प्रतिदिनमभ्यसनेन यथा जनो विद्यां तोषयितुं समर्थो भवति तथैव बमपि कन्दमूलादिकं वनोद्भूतं मक्षयित्वा मुनिवृत्तिः सन् यावन्न प्रसन्ना भवति तावदात्मानुसरणेनेमा नन्दिनी कामधेनुसुतां प्रसादयितुमुघतो भव ॥ इन्दुः-तुम वन में उत्पन्न हुये कन्दमूलादि खाकर निरन्तर इस गायके पीछे. पीछे चल करके, जैसे निरन्तर अभ्यास से विद्या प्रसन्न की जाती है उसी तरह से इसे प्रसन्न करने के लिये योग्य हो ॥ ८८ ॥ गवानुसरणप्रकारमाह प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः। निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः ॥ ८ ॥ सञ्जी०-प्रस्थितायामिति । अस्यां नन्दिन्यां प्रस्थितायां प्रतिष्ठेथाः प्रयाहि । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । स्थितायां निवृत्तगतिकायां स्थितिमाचरेः स्थितिं कुरु । तिष्ठेत्यर्थः। निषण्णायामुपविष्टायां निषीदोषविश । विध्यर्थे लोट । पीतमम्भो यया तस्यां पीताम्भसि सत्यामपः पिवेः पिव ॥ अ०-अस्यां, प्रस्थितायां, (त्वम् ) प्रतिष्ठेयाः, स्थितायां, स्थितिम् आचरेः, निषण्णायां निषीद, पीताम्भसि (सत्याम्) भापः, पिबेः । - वा०-अस्यां प्रस्थितायां (त्वया) प्रतिष्ठीयेत, स्थितायां स्थितिराचर्येत, निषण्णायां निघद्यतां, पीताम्भसि (सत्याम् ) भपः पीयेरन् । सुधा-अस्याम् एतस्यां, पुरःस्थितायां नन्दिन्यामिति यावत् । प्रस्थितायां = प्रयातायां, वन इति शेषः । सत्यामिति सर्वत्र योज्यम् । प्रतिष्ठेथाम्प्रयाहि, तदनुप्रस्थितो भवेति भावः अत्र सर्वत्र क्रियायाः कर्तुराक्षेपेण त्वमिति पदं योज्यम् । स्थितायां प्रयाणमकुर्वाणायां, सत्यां, स्थितिमाचरेः=गमननिरोधं कुरु, तिष्ठेत्यर्थः । स्वस्येति शेषः । निषण्णायाम् उपविष्टायां, सत्यां, भूमाधिति शेपः। निपीद-उप. विश, पीताम्भसि-आधमितजलायां, कृतजलपानायामित्यर्थः । सत्याम, अपा-जलं पिबेः= आचम, पानं कुरुष्वेत्यर्थः । त्वमस्याश्छायावदनुसरणं कुरुष्वेति भावः ॥ . स०-आप्नोति आप्यते वा अम्भः पीतमम्भो यया सा पीताम्भस्तस्यां पीताम्भसि । आप्नुवन्ति, आप्यन्ते वेति, आपस्ता अपः। को०-भम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम्' इति । 'आपः स्त्री भूम्नि वारि सलिलं कमलं जलम्' इति चामरः। ता०-हे राजन् ! त्वमस्याश्छायावत् परिचर्या कुरु, तद् यथा-एषा यदा गन्तुमुद्यता सती प्रयाणं करोतु तदैव त्वमपि तदनु प्रयाणं कुरु। यदा च क्वचित् स्थिता

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149