Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
रघुवंश महाकाव्यम् -
[ द्वितीयः निबद्धतर्णकाम्, ऋषेः = सत्यवचसः, वशिष्ठस्येत्यर्थः । धेनुं = नवसूतिकां गां नन्दि नीम्, वनाय = वनं गन्तुं, मुमोच = मुक्तवान् ।
समासादि - यश एव धनं यस्यासौ यशोधनः । प्रकर्षेण जायन्त इति प्रजा स्तासां प्रजानाम् । अध्यधिकं पातीत्यधिपः । भातुं प्रवृत्तम् प्रभासं तस्मिन् प्रभाते । गन्धश्च माल्यञ्च गन्धमाल्ये, जायतेऽस्यामिति जाया तया प्रतिग्राहिते जायाप्रति ग्राहिते, जाताप्रतिग्राहिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या तां जायाप्रतिग्राहितगन्धमाल्याम् । पीतं पानमस्यास्तीति पीतः पूर्वं पीतः पश्चात् प्रतिवद्धः पीतप्रतिबद्धः पीतप्रतिबद्धो वत्सो यस्याः सा पीतप्रतिवद्धवत्सा तां पीतप्रतिबद्धवत्साम् । धीयते सुतैरिति धेनुस्तां धेनुम् ।
कोपः—‘मङ्गलानन्तरारम्भप्रश्नकात्स्न्येय्वथो अथ' इति । 'प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युपसी अपि । प्रभातच' इति । 'प्रजा स्यात् सन्ततौ जने' इति । 'प्रभुः परि वृढोऽधिपः' इति । 'भार्या जायाऽथ पुम्भूम्नि दाराः स्याद्' इति । 'माल्यं मालाखजौ मूर्ध्नि' इति । 'यशः कीत्तिः समझा च' इति । 'धेनुः स्यान्नवसूतिका' इति चामरः ।
तात्पर्यार्थः:- अथ प्रभाते राजा दिलीपो राज्ञ्या सुदक्षिणया गन्धादिभिः स पूज्य वत्समपि यथेच्छं चीरं पाययित्वा ततस्तं वद्ध्वा च वने विचरणार्थं वशिष्ठस्य धेनुं नन्दिनीनाम्नीममुचत् ।
इन्दु :- रात के बीत जाने पर प्रातःकाल प्रजाओं के पालन करने वाले, यश को ही धन समझने वाले राजा दिलीप ने रानी सुदक्षिणा के द्वारा पूजन में प्राप्त चन्दन और पुष्पों की माला को धारण की हुई, दूध पी चुकने के बाद जिसका बछड़ा बांध दिया गया है, ऐसी ऋषि वशिष्ठ की नई व्याई हुई नन्दिनी नाम की गौ को जङ्गल में चरने के लिये खोल दिया ॥ १ ॥
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां घुरि कीर्तनीया । मार्ग मनुष्येश्वरधर्मपत्नी श्रतेरिवाथ स्मृतिरन्वगच्छत् ॥ २ ॥
सञ्जी० - तस्या इति । पांसवो दोषा आसां सन्तीति पांसुलाः स्वैरिण्यः । 'स्वैरिणी पांसुला' इत्यमरः । 'सिध्मादिभ्यश्च' इति लच्प्रत्ययः । अपांसुलानां पतिव्रतानां धुर्यग्रे कीर्त्तनीया परिगणनीया | मनुष्येश्वरधर्मपत्नी । खुरन्यासैः पवित्राः पांसवो यस्य तम् । 'रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इत्यमरः । तस्या धेनोर्मार्गम्। स्मृतिर्मन्वादिवाक्यं श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव अन्वगच्छदनु सृतवती च । यथा स्मृतिः श्रुतिक्षुण्णमेवार्थमनुसरति तथा सीऽपि गोखुरतुण्णमेव मार्गमनुससारेत्यर्थः । धर्मपत्नीत्यत्राश्ववासादिवत्तादर्थे षष्ठीसमासः प्रकृतिविकारा भावात् । पांसुलपथवृत्तावप्यपांसुलानामिति विरोधालङ्कारो ध्वन्यते ।
अ० - अपांसुलानां धुरि, कीर्त्तनीया, मनुष्येश्वरधर्मपत्नी, खुरन्यासपवित्रपांसुं,

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149