Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । १६ हुए नौकर स्वामी के आगे उपस्थित होने के लिये समर्थ नहीं हो सकता ॥५६॥ सर्वथा चैतदप्रतिहार्यमित्याहकिमप्यहिल्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः । एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौति केषु ॥ ५७ ।। सजी०-किमिति । किमपि कि वाऽहं तवाहिंस्योऽवध्यो मतश्चेत्तर्हि मे यश एव शरीरं तस्मिन्डयालुः कारुणिको भव । 'स्यायालुः कारुणिकः' इत्यमरः । ननु सुख्यमुपेच्यासुख्यशरीरे कोऽभिनिवेशोऽत माह-एकान्तेति । मविधानां माहशानां विवेकिनामेकान्तविध्वंसिष्ववश्यविनाशिषु भौतिकेषु पृथिव्यादिभूतविकारेषु पिण्डेषु शरीरेवनास्था खल्वनपेक्षवा अस्था त्वालम्बनास्थानयत्नापेक्षासु कथ्यते' इति विश्वः ।
अ०-किमपि, अहं, तव, अहिंस्यः, मतः, चेत्, तर्हि', मे, यशःशरीरे, दयालुः, भव, मद्विधानाम्, एकान्तविध्वंसिषु, भौतिकेषु, पिण्डेषु, अनास्था, खलु। ___ वा०-मया तवाहिंस्येन मतेन, 'भूयते' अनास्थया खलु 'भूयते' । 'स्वया' दयालुना भूयताम् । . सुधा-किमपि -किञ्च, अहं दिलीपः, तवम्भवतः, सिंहस्य, अहिंस्या सिंहाs. नहीं, मतः=अभीष्टः, चेद् = यदि, 'तर्हि' इति शेषः । मे = मम, दिलीपस्य । यश:शरीरे कीर्तितनौ, दयालुः = कृपालुः, भव = स्याः त्वमिति शेषः। मद्विधानां = राज्ञाम्, एकान्तविध्वंसिषु-नितान्तनश्वरेषु, भौतिकेषु =क्षित्यप्तेजोवारवाकाशेतिपञ्चभूतरचितेषु, पिण्डेषु, अनास्था% अनपेक्षा, खलु%एव।
समा०-हिंसितुं योग्यो हिंस्यः, न हिंस्थोऽहिंस्यः ! यश एव शरीरं यशःशरीरं तस्मिन् यशःशरीरे । विशेषेण ध्वंसितुं शीलमेषामिति विध्वंसिनः, एकान्तं विध्वंसिन इत्येकान्तविध्वंसिनस्तेषु तथोक्तेषु । मम विधेव विधा प्रकारो येषान्ते मद्विधा. स्तेषां मद्विधानाम् । न भास्थेत्यनास्था। भूतानां विकारा भौतिकास्तेषु भौतिकेषु । - कोशः-'तीव्रकान्तनितान्तानि गाढबाढढानि च' इत्यमरः। "पिण्डो गोले बले सान्द्रे देहागारैकदेशयोः। देहभावे निकाये चेति मेदिनी।
ता-किञ्च यद्यहं केनचित् कारणेन भवतामवध्यः स्यां तर्हि भवान् मम यशोरूपशरीरे दयालुर्भूत्वा नश्वरस्य पञ्चभूननिर्मितस्य शरीरस्य भक्षणेन शाश्वतिकी कीर्ति रक्षतुः। . इन्दुः-और यदि मैं तुम्हारे समक्ष में अवध्य हूँ तो मेरे यश रूप शरीर के विषय में तुम दयायुक्त होओ, क्योंकि हमारे ऐसे लोगों की अवश्य नष्ट होनेवाले पृथ्वी-जल तेज वायु-अकाश इन पांच महाभूतों से बने हुए शरीर में अपेक्षा नहीं रहती है ।। ५७ ॥ सौहार्दादहमनुसरणीयोऽस्मीत्याहसम्बन्धमाभाषणपूर्वमाहुर्वृत्तः स नौ सङ्गतयोवनान्ते । तद् भूतनाथानुग ! नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् ॥८॥ सजी०-सम्बन्धमिति । सम्बन्धं लख्यम् । आभाषणमालापः पूर्व कारणं यस्य ४ रघु० महा०

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149