Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 145
________________ सर्गः ] सञ्जीवनी - सुधेन्दु टीकात्रयोपेतम् | सभी - तमिति । श्रदर्शनेन प्रवासनिमित्तेनाहितौत्सुक्यं जनितदर्शनोत्कण्ठम प्रजाऽर्थेन सन्तानार्थेन व्रतेन नियमेन कर्शितं कृशीकृतमङ्गं यस्य तम् । नदोदयं नवाभ्युदयं प्रजास्तृप्तिमनाप्नुवद्भिरतिगुष्नुभिर्नेनैः । ओषधीनां ना सोममिव तं राजानं पपुः, अत्यास्थया दहशुरित्यर्थः । चन्द्रपक्षे = अदर्शनं कलाक्षयनिमित्तम् प्रजार्थं लोकहितार्ह व्रतं देवताभ्यः कलादाननियमः ( तं च सोमं पपुर्देवाः पर्याये णानुपूर्वशः ) इति व्यासः । उदय आविर्भावः । अन्यत्समानम् । ६१ अ० - अदर्शनेन, आहितौत्सुक्यं, प्रजाऽर्थव्रतकर्शितानं, नवोदयं प्रजाः, तृप्तिम्, अनाप्नुवद्भिः, नेत्रैः, ओषधीनां नाथं, सोमम्, इव, तं पपुः । - वा० – आहितौत्सुक्यः प्रजार्थंव्रत कर्शिताङ्गो नवोदयः प्रजाभिर्नाथ इव स पपे । सुधा० - आदर्शनेन = अनवलोकनेन चन्द्रपते कलाचजन्येनादर्शनेनेति यावद् । आहितौत्सुक्यम् = आस्थापितौत्कण्ठ्य, प्रजाऽर्थत्रत कर्शिताङ्ग= सन्ततिप्रयोजन कनियमहसितगात्रं, चन्द्रपक्षे = लोकहितार्थ देवसम्बन्धिकलादानरूप नियम कृशीकृतगात्रं, नवोदयं = नवीनसमुन्नतिं, 'चन्द्रपत्ते' नवीनाविर्भावम् । प्रजाः जनाः, तृप्तिं तर्पणम्, अनाप्नुवद्भिः = अनधिगच्छद्भिः, अतिशयगर्धनैरिति भावः । नेत्रैः = नयनैः, ओष• धीनां = फलपाकान्तव्रीहियवादीनां नाथं = स्वामिनं, चन्द्रम् । इव = यथा, |तं = राजानं, पपुः पिबन्ति स्म, सापेक्षमवलोकयामासुरिति भावः । - समा० - उत्सुकस्य भाव औत्सुक्यम्, आहितमौत्सुक्यं प्रनासु स्वदर्शनसम्बन्धि येन स आहितौत्सुक्यस्तं तथोक्तम् । न दर्शनमदर्शनम् तेनादर्शनेन । प्रजा एवार्थः प्रयोजनं यस्य तत्प्रजाऽर्थं तच्च तद् व्रतं प्रजाऽर्थव्रतं तेन कर्शितं प्रजार्थव्रतकशितं तद् अङ्गं यस्य स प्रजाऽर्थत्रतकर्शिताङ्गस्तं तथोक्तम् । नव उदयो यस्य स नवोद• यस्तं नवोदयम् । कोशः -- ' प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः । नूत्नश्च' इत्यमरः । ता०:- - प्रजार्थं गोसेवारूपव्रतेन कृशीकृतशरीरं तं दिलीपं सतृष्णैर्नेत्रैश्चन्द्रमिव दशुः । इन्दुः- प्रवास होने के कारण नहीं देख पढ़ने से 'चन्द्रपक्ष में' कला के तय हो जाने से नहीं दीख पड़ने से लोगों से देखने की उत्कण्ठा जिसने उत्पन्न करा दी है तथा पुत्र के लिए गोसेवारूप व्रत करने से जिनका शरीर कृश हो गया है, 'चन्द्रपक्ष में' लोक के हित के लिए देवताओं को अमृतरूपी कलाओं के दानरूपी नियम से जिनका नवीन आविर्भाव हुआ है, ऐसे ओषधियों के स्वामी चन्द्रमा की भाँति उन राजा दिलीप को प्रजाओं ने अतृप्त नेत्रों से देखा ॥ ७३ ॥ पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः । भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेषु रमाससञ्ज ॥ ७४ ॥

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149