Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 143
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । ५६ जायापती, स्वाम् = आत्मीयां, राजधानी प्रति = अयोध्यामुद्दिश्य, प्रस्थापयामास= प्रेषयामास। ___ समा०-उक्तमनतिक्रम्येति यथोक्तं, यथोक्तंच तद् व्रतं यथोक्तव्रतं तस्य पारणा यथोक्तवतपारणा, तस्या अन्तो यथोक्तव्रतपारणाऽन्तस्तस्मिस्तथोक्ते । प्रस्थाने भवं प्रास्थानिकम् । स्वस्ति क्षेमस्य अयनं तत्स्वस्त्ययनम् । धीयन्तेऽस्यामिति धानी, राज्ञां धानी राजधानी तां तथोक्ताम् । बशमिन्द्रियोपरि प्रभुत्वमस्यास्तीति वशी। कोशः-'यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गमः' इति । 'दम्पती जम्पती जायापती भार्यापती च त तौ' इति चामरः। ता०-वसिष्ठः प्रातःकाले आशीर्वादं दत्वा सुदक्षिणादिलीपो अयोध्यां प्रति प्रस्थापयामास। इन्दुः-इन्द्रियों के ऊपर अपनी प्रभुता रखनेवाले (जितेन्द्रिय) वसिष्ठ महर्षि ने प्रातःकाल में पूर्वोक्त गोसेवा रूप व्रत की पारणा कर चुकने के बाद प्रस्थानकालोचित स्वस्त्ययन करके उन दोनों स्त्री पुरुष सुदक्षिणा और दिलीप को उनकी राजधानी अयोध्या की तरफ भेजा ॥७॥ प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भनुररुन्धतीं च । धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ।। ७१ ।। __ सजी०-प्रदक्षिणीकृत्येति । नृपो हुतं तर्पितं, हुतमश्नातीति हुताशोऽग्निः। कर्मण्यम्। तं भत्तु मुनेरनन्तरम् प्रदक्षिणान्तरमित्यर्थः। अरुन्धती च सवत्सां धेनुं च प्रदक्षिणीकृत्य प्रगतो दक्षिणं 'तिष्ठद्गुप्रभृतीनि च' इत्यव्ययीभावः ततश्च्विः । अप्रदक्षिणं सम्पद्यमानं कृत्वा प्रदक्षिणीकृत्य सद्भिर्मङ्गलाचारैरुदग्रतरप्रभावः सन्प्रतस्थे। ___ अ०-नृपः, हुतं, हुताशं, भर्तः अनन्तरम्, अरुन्धतीं, च, सवरसां, धेनुं च, प्रदक्षिणीकृत्य, सन्मङ्गलोदग्रतरप्रभावः 'सन्' प्रतस्थे । वा०-तृपेण सन्मङ्गलोदग्रतरप्रभावेण 'सता' प्रतस्थे। ___ सुधा-नृपः राजा, हुतं प्राप्तहविष, हुताशमू-अग्निम् भत्तः = स्वामिनः, वसिष्ठस्येत्यर्थः, अनन्तरम् = पश्चात्, अरुन्धती = वसिष्ठभायाँ, च = समुच्चयेऽर्थे, सवत्सां तर्णकसहितां, धेनुं गां, च = समुच्चयेऽर्थे, प्रदक्षिणीकृत्य = परिक्रम्य, सन्मङ्गलोदग्रतरप्रभावः-श्रेष्ठभद्रोपिकृततरतेजाः, 'लन्' प्रतस्थे%प्रस्थानं कृतवान् । ___समाव-भविद्यमानसन्तरं यत्र तदनन्तरम् । बिभर्तीति भर्त्ता तस्य भत्तः । वत्सेन सहिता सवत्सा तां सवत्साम् । सन्ति च ताति मङ्गालानि सन्मङ्गलानि अयमनयोरतिशयेनोदय इत्युदग्रतरः, सन्मङ्गलैरूदग्रतरः सन्मङ्गलोदग्रतरः स प्रभावो यस्य स तथोक्तः। कोशः–'भग पोष्टरि धारके' इत्यने । 'सन्साधौ धीरशस्तयोः' इति मे०। ___ ता०-दिलीपो हुतमग्नि पत्नीसहित वसिष्ठञ्च तथा सवत्सां धेनुमपि परिक्रम्य प्रदक्षिणादिभिः सन्मङ्गलाचारैः प्रवृद्धतेजाः 'सन्' राजधानी प्रति जगाम ।

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149