Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 141
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । तस्याः प्रसन्नेन्दुमुखः प्रसाद गुरुर्नृपाणां गुरवे निवेद्य । प्रहर्षचिह्नानुमितं प्रियायै शशंस पाचा पुनरुक्तयेव ॥ ६८॥ सो०-तस्या इति । प्रसन्नेन्दुरिव मुखं यस्य स नृपाणां गुरुर्दिलीपः प्रहर्षचिह्न, मुखरागादिभिरनुमितमूहितं तस्या धेनोः प्रसादानुग्रहं प्रहर्षचिरेव ज्ञातत्वात्पुनरुक्तयेव वाचा गुरवे निनेध विज्ञाप्य पश्चाप्रियायै शशंस । कथितस्यैव कथनं पुनरुक्तिः । न चेह तदस्ति । किन्तु चिह्नः कथितप्रायत्वात्पुनरुक्तयेव स्थितयेत्युप्रेक्षा। अ०-प्रसबेन्दुमुखैः, नृपाणां, गुरुः, प्रहपचिह्नानुमितं, तस्याः, प्रपाद, षुनरुक्कया, इव, वाचा, गुरवे, निषेध, 'पश्चात्' प्रियाये, शशंस । वा०-प्रसन्नेन्दुमुखेन गुरुणा प्रहपंचिह्नानुमितः प्रसादः शशंसे। सुधा-प्रसन्नेन्दुमुखः = स्वच्छन्द्रवदनः, नृपाणां राज्ञां, मध्य इति शेषः । गुरुः = श्वष्ठः, दिलीपः, प्रहर्षेचिह्नानुमितम् - उत्कटप्रमोदलक्षणतर्कितम् । तस्याः= नन्दिन्याः, प्रसादम् = भनुग्रहम, प्रहर्षचिढेरेव ज्ञाततया पुनरुक्तया = भूयः कथि. तया, इव= यथा, वाचावनेन, गुरुवे = वसिष्ठाय, निवेद्य विज्ञाप्य 'पश्चात्' प्रियायै=भार्याय, शशंभ-कथयामास । . समा०-प्रसन्नश्वासाविन्दुः प्रसन्नेन्दुः स इव मुखं यस्य स तथोक्तः। प्रकृष्टा होः प्रहर्षास्तेषां चिह्नानि तैरनुमितः प्रहर्षचिह्नानुमितस्तं तथोक्तम् । __ कोश:-'प्रसन्ना स्त्री सुरायां स्यात् स्वच्छसन्तुष्टयोनिषु' इति मे० । 'प्रसादस्तु प्रसन्नता' इत्यमरः। ___ ता०-अतिप्रसन्नो दिलीपः स्वकीयमुखरागादिभिः प्रसन्नतायोतकचिह्नः कथितप्रायं नन्दिन्या वरप्रदानरूपानुग्रहं पुनरुकमिव प्रथमं गुरवे पश्चात् सुदक्षिणायै निवेदयामाल। इन्दुः-निर्मल चन्द्रमा की भाँति स्वच्छ मुखवाले राजाओं में श्रेष्ठ दिलीप ने अधिक प्रसन्नता के घोतक मुख की लालिमा आदि चिह्नों से जिसका अनुमान हो रहा था, ऐसे उस नन्दिनी के वरदानरूपी अनुप्रह को हर्ष के जाननेवाले चिह्नों से कहने से पहिले ही मालूम हो जाने से दुबारा कही जाती हुई वाणी की भौति गुरुजी से निवेदन किया पश्चात् प्यारी पटरानी सुदक्षिणा से भी कहा ॥ ६८ ॥ स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् । पपौ वसिष्ठेन कृताभ्यनुशः शुभ्र यशो मूमिवातितृष्णः।। ६६ ।। सजी०-स इति । अनिन्दितात्माऽगर्हितस्वभावः सत्सु वत्सलः प्रेमवान्सदरसलः । 'वरसांसाभ्यां कामबले' इति लच्प्रत्ययः। वसिष्ठेन कृताभ्यनुज्ञः कृतानुमतिः स राजा वरसस्य हुतस्य घावशेषं पीतेहुतावशिष्ट नन्दिन्याः स्तन्यं क्षीरं शुभ्रं मूर्त परिच्छिन्नं यश इव । अतिवृष्णः सन् पपौ।

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149