________________
रघुवंश महाकाव्यम्-
[ द्वितीय:
ता० - सेयं मया स्वशरीरदान विनिमयेन भवतो मोचयितुं योग्याऽस्ति, एवं कृते सति तव चिरकालाद बुभुक्षितस्य व्रतान्तभोजनं नष्टं न भवेत्, तथा वसिष्ठ - महर्षेहमादिक्रिया रूपं प्रयोजनमपि लुप्तं न स्यात् ।
इन्दुः- कामधेनु के तुल्य इस नन्दिनी को मेरा अपने शरीरार्पण रूप निष्क्रय के द्वारा आप से छुड़ाना न्यायसङ्गत है, ऐसा करने पर आपके व्रत के अन्त का भोजन (पारणा ) भी नष्ट नहीं होगा और वसिष्ठ महर्षि का होमादि रूप प्रयोजनभी नष्ट नहीं होगा ॥ ५५ ॥
४८
अत्र भवानेव प्रमाणमित्याह -
भवान पीदं परवानवैति महान् हि यत्नस्तव देवदारौ ।
स्थां नियोक्तर्न हि शक्य मत्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ ५६ ॥ सञ्जी० - भवानीति । परवान्स्वामिपरतन्त्रो भवानपि । 'परतन्त्रः पराधीनः परवान्नाथवानपि' इत्यमरः । इदं वाच्यमाणमवैति । भवताऽनुभूयत एवेत्यर्थः । ' शेषे प्रथमः' इति प्रथमपुरुषः । किमित्यत आह- हि यस्माद्धेतोः । 'हि हेताववधारणे' इत्यमरः । तव देवदारौ विषये महान् यत्नः । महता यत्नेन रचयत इत्यर्थः । इदं शब्दोक्तमर्थं दर्शयति- स्थातुमिति । रच्यं वस्तु विनाश्य विनाशं गमयित्वा स्वयते नात्रणेन, नियुक्तेनेति शेषः । नियोक्तुः स्वामिनोऽग्रे स्थातुं शक्यं न हि । अ०- परवान्, भवान् अपि इदम्, अवैति, हि तव, देवदारौ, महान् चत्नः, रच्यं, विनाश्य, अक्षतेन नियोक्तुः, अग्रे, 'स्थातुं शक्यं न हि ।
वा० – परवता=भवताऽवेयते महता यत्नेन 'भूयते' नहि स्ववमक्षतः शक्नुयात् । सुधा०-- परवान् = पराधीनः भवान् =त्वम् अपि =समुच्चयेऽर्थे, इदम् = एतद्, वच्यमाणमिति यावद् । अवैति = जानाति, हि = यतः, तव = भवतः, देवदारौ=देव, दारुवृचे, महान् = अतिशयः, यतः = प्रयासः, अस्तीति शेषः । रच्यं =पाल्यं, वस्तु । विनाश्य = अभावं गमयित्वा स्वयम् = आत्मना, नियुक्तेनेति शेषः । अक्षतेन: व्रणरहितेन, नियोक्तुः = आदेष्टुः, अग्रे = पुरतः, स्थातुं = वस्तुम्, शक्यं = शक्तुमईं नहि =
= न ।
=
समा०—परः स्वाम्यस्यास्तीति परवान् । नियुनक्कीति नियोक्ता तस्य नियोक्तुः । न चतोऽक्षतस्तेनाक्षतेन । वा० - 'स्वयमात्मना' इत्यमरः । ।
ता० - किन्न निजभर्त्तुरधीनस्थो भवानपि जानात्येव यतो भवतोऽप्यस्य देवदारुतरोः रक्षणे महान् प्रयत्नो लच्यतेऽत एव स्वयमेव चतरहितेन सदा रक्षणाह वस्तु विनाश्य स्वामिनोऽग्रे स्थातुं नोचितम् ।
इन्दुः- पराधीन होते हुये आप भी इस ( आगे कही जाने वाली ) बात को जानते हैं, क्योंकि आपका देवदारु के विषय में 'रक्षा करने के लिये' बहुत भारी प्रयत्न है । 'अत एव' रक्षा करने के योग्य वस्तु का नाश करके
स्वयम् विना नष्ट