Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
रघुवंशमहाकाव्यम्
[द्वितीय अहमिति शेषः। वरं वरणीयमर्थ, वृणीष्व = अङ्गीकुरु, त्वमिति शेषः । तथाहीति शेषः मां नन्दिनीं, केवलानाम् = एकेषाम्, पयसांक्षीराणाम्, प्रसूति-प्रस वित्री, न= नहि, अवेहि =जानीहि, किन्विति शेषः । प्रसन्नां प्रीतां, मामिति शेषः । कामदुघा = काश्यप्रपूरयित्रीम्, अवेहीति शेषः ।
समा०-कासान् दोग्धीति कामदुधा तां कामदुधाम् । कोशः–'भक्तिः सेवागीणवृत्त्योर्सङ्गयां श्रद्धाविभागयोः' इति । 'कामः स्मरेच्छा काम्येषु' इति चाने।
ता०-हे पुत्र ! तेऽहं प्रसन्नाऽस्मि, अतस्त्वं वृणीप्व, तथाहि मां केवलाना दुग्धानां दात्रीं न जानीहि किन्तु कामधेनुदुहितृतया सकलाभीष्टदायिनीमपि जानीहि ।
इन्दुः-हे पुन्न ! वलिष्ठ महर्षि के विषय में भक्ति रहने से और मेरे विषय में दया रखने से मैं तुम पर प्रसन्न हूँ। इसलिए तू वर माँग, और मुझे निरी दूध देने वाली गाय मत समझ किन्तु प्रसन्न होने पर अभिलाषों को पूरी करनेवाली भी जान ॥३॥ ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः । वंशस्य कर्तारमनन्तकीर्ति सुदक्षिणायां तनय ययाचे ।। ६४ ॥
सजी०-तत इति । ततो मानितार्थी । स्वहस्तार्जितो वीर इति शब्दो येन, एते. नास्य दातृत्वं दैन्यराहित्यं चोकम् । स राजा हस्तौ समानीय सन्धाय । अञ्जलि बद्ध्वेत्यर्थः। वंशस्य कर्तारं प्रवर्तयितारम् । अत एव रघुकुलमिति प्रसिद्धिः। अनन्तकीति स्थिरयशसं तनयं सुदक्षिणायां ययाचे।
अ०-ततः, मानितार्थी, स्वहस्तार्जितवीरशब्दः, सः, हस्तौ, समानीय,वंशस्य, कर्तारम् , अनन्तकीर्ति, तनयं, सुदक्षिणायां ययाचे। वा०-मानितार्थिना स्वहस्ता. र्जितवीरशब्देन तेन कर्ताऽनन्तकीर्तिस्तनयो ययाचे ।। ___ सुधा-ततः अनन्तरं, मानितार्थी संमानितयाचकः, स्वहस्तार्जितवीरशब्दनिजबाहुवललब्धवीरपदवीकः, सः = राजा दलीपः, हस्तौ फरौ, समानीय एकत्र निधाय, वंशस्थ = कुलस्य, कर्तारं विधातारम्, अनन्तकीर्ति निरवधियशसं, सनयं पुत्रं, सुदक्षिणायांतदाख्यस्वमहिण्याम, ययाचे=याचितवान् ।। ___समा०-मानिता अर्थिनो येन स मानितार्थी। स्वस्य हस्तौ स्वहस्तौ ताभ्यामर्जितः, स्वहस्तार्जितः बीर इत्याख्यः शब्दो वीरशब्दः, स्वहस्तार्जितो वीरशब्दो येन स तथोक्तः। अविद्यमानोऽन्तोऽस्या इत्यनन्ता, अनन्ता कीर्तिर्यस्य लोऽनन्तकीतित्तं तथोकम् ।
कोशः–'अनन्तः केशवे शेषे पुमान् निरवधौ त्रिषु' इत्यमरः। ता-राजा दिलीपोऽञ्जलिं बद्ध्वा कुलप्रवर्तकं यशस्विनं पुत्रं प्रार्थितवान् ।
इन्दुः-उसके बाद याचकों को सन्तुष्ट करनेवाले अपने हाथों से 'वीर' इस शब्द को प्राप्त करनेवाले उन राजा दिलीप ने दोनों हाथों को जोड़कर वंश को चलाने

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149