Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः ]
सञ्जीवनी-सुधेदुटी कात्रयोपेतम् |
३३
तीनन्दनः स्कन्दः सेनानीः' इत्यमरः । 'सत्सूद्विष०' इत्यादिना क्विप् । तमिव, एनं
देवदारुं शुशोच |
० - कदाचित्, कटं, कण्डूयमानेन, वन्यद्विपेन, अस्य त्वग्, उन्मथिता, अथ, अद्रेः, तनया, असुरास्त्रैः, आलीढं, सेनान्यम्, इव, एनं शुशोच ।
)
वा०-- कण्डूयमानो बन्याद्विपोऽस्य स्वचमुन्मथितवानथाद्वेस्तनययाऽसुरास्त्ररा लीढः सेनानीपि शुशुचे ।
सुधा— कदाचित् =जातु, कटं = गण्डं, कण्डूयमानेन = घर्षणं कुर्वता, वन्यद्विपेन = वनोद्भवगजेन, अस्य = एतस्य, देवदारुतरोः त्वग्= वल्कलम्, उन्मथिता = उत्पा डिता, अय = पाश्चाद्, अद्रेः = हिमाचलस्य, तनया = सुता, पार्वती, असुरास्त्रे, C दैत्यायुधैः, आलीढम् = क्षतम्, सेनान्यं = स्कन्दम् इव = यथा, एनं देवदारुतरुम्, शुशोच = विषसाद |
समा० - वन्यश्चासौ द्विपो वन्यद्विपस्तेन वन्यद्विपेन । असुराणामखाण्यसुरास्त्राणि तैरसुरास्त्रैः ।
अ०
कोशः - ' गण्डः कटः' इत्यमरः ।
ता० - कस्मिंश्चित्समये केनापि वन्यगजेनास्य देवदारुतरो रक्षकाभावाद्वल्कलमुत्पाटितं तदुपश्रुत्य दैत्यानामस्त्रैः क्षते स्कन्दे स्वतनये यथा विषादमाप पार्वती तथैवातिशयमेनं शुशोच ।
इन्दुः- किसी सयय गण्डस्थल को रगड़ते हुए किसी जङ्गली हाथी ने इस देवदारुवृक्ष की छाल उधेड़ डाली, इसके बाद पार्वतीजी ने दैत्यों के अस्त्रों से चोट खाये हुए अपने पुत्र स्कन्द के समान इसके सम्बन्ध में भी शोक किया ॥ ३७ ॥ तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ ।
व्यापारितः शूलभृता विधाय सिहत्वमागतसत्त्ववृत्ति ।। १८ ।। सञ्जी० -तदेति । तदा तत्कालः प्रभृतिरादिर्यस्मिन्कर्मणि तत्तथा तदाप्रमृत्येव वनद्विपानां नासार्थं भयार्थं शूलभृता शिवेन, अङ्कं समीपमागताः प्राप्ताः सत्त्वाः प्राणिनो वृत्तिर्यस्मिंस्तत् 'अङ्कः समाप उत्सङ्गे चिह्न स्थानापराधयोः' इति केशवः । सिहत्वं विधाय । अस्मिन्नद्विकुक्षौ गुहायामहं व्यापारितो नियुक्तः ।
अ० - तदाप्रभृति, एव, वनद्विपानां, नासाऽधं, शूलभृता, अङ्कागतसत्त्ववृत्ति, सिहत्वं, विधाय, अस्मिन् अद्विकुक्षौ, अहं, व्यापारितः ।
वा० - शूलभृद् मां व्यापारितवान् ।
=
सुधा - तदाप्रभृति: [= तदानींतनकालादारभ्य एव = अवधारणे, वनद्विपानां काननगजानां, त्रासार्थं भयप्रयोजनकं, शूलभृता = शिवेन । अङ्कागतसत्ववृत्ति = समीपप्राप्तजन्तुजीवनं सिंहत्वं केसरित्वं विधाय = कृत्वा, अस्मिन् = एतस्मिन्, अद्विकुक्षौ = अचलोदरे, गुहायाम् । अहं = सिंहः, व्यापारितः = स्थापितः ।
=
३ रघु० महा०
=

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149