Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
३८
रघुवंशमहाकाव्यम्
[द्वितीय समा०–संसद्धा चेष्टा यस्य स संरुद्धचेष्टस्तस्य । हसितुं योग्यं हास्यम् । वक्तु मच्छुर्विवतुः । प्राणान् विभ्रतीति प्राणभृतस्तेषां प्राणभृताम् ।।
को-'हामं प्रकास पर्याप्तम्' इत्यमरः।
ता०-हे सिंह ! निरुधुकरचलनादिव्यापारस्य सम वचो यद्यपि परिपूर्णतयोप हासयोग्यमस्ति तथापि अवतो जन्तूनां हृदतसकलभावाभिज्ञतया सम्प्रति वक्ष्ये।
इन्दुः-हे सिंह ! यधपि रुकी हुई है चेष्टा जिसकी, ऐसे मुझ दिलीप का वह चचन अत्यन्त परिहास करने के योग्य है, जिसे मैं कहने की इच्छा करनेवाला हो रहा हुँ तथापि आप सभी जीवों के हृदय के भाव जानते हैं, इससे कहूँगा ॥ ४३॥
मान्यः स मे स्थावरजङ्गमानां सस्थितिप्रत्यवहारहेतुः। गुरोरपीदं धनमाहिताग्नेनश्यत्पुरस्तादनुपेक्षणीयम् ॥ ५४॥
सजी०-मान्य इति । प्रत्यवहारः प्रलयः। स्थावराणां तरुशेलादीनां जङ्गमाना मनुष्यादीनां सर्गस्थितिप्रत्यवहारेषु हेतुः स ईश्वरो मे मम मान्यः पूज्यः । अलवयः शासन इत्यर्थः। शासनं च 'सिंहत्वमङ्कागतसत्त्ववृत्ति' (२०२८) इत्युक्तरूपम् । तर्हि विसृज्य गस्यताम् । नेत्याह-गुरोरपीति । पुरस्तादग्रे नश्यदिदमाहिताग्ने - रोर्धनमपि गोरूपमनुपेक्षणीयम् । आहिताग्नेरिति विशेषणेनानुपेक्षाकारणं हविः सा. धकत्वं सूचयति। ____ अ०-स्थावरजङ्गमानां, सर्वस्थितिप्रत्यवहारहेतुः, सः, मे, मान्यः, पुरस्तात् । नश्यत, इदम्, आहिताग्नेः, धनम्, अपि, अनुपेक्षणीयम् । वा०-सर्गस्थितिप्रत्यवहारहेतुना तेन मे मान्येन 'भूयते' पुरस्ताद् नश्यताऽनेन धनेनाप्युपेक्षणीयेन 'भूयते'
सुधा-स्थावरजङ्गमाना जङ्गमेतरचराणाम्, पादपपर्वतादिनरप्रभृतीनामिति भावः, सर्गस्थितिप्रत्यवहारहेतु: उत्पत्तिपालननाशकारणम्, सः ईश्वरः, मे मम, दिलीपस्य । सान्या पूज्यः, अस्तीति शेषः। पुरस्तात्-भग्रे, नश्यत्-नाशं गच्छत् इदम् = एतत् , अग्रे दृश्यमानमिति भावः। आहिताग्नेः कृताग्निहोत्रस्य, गुरोः= वसिष्ठस्य, धनम् = गोधनम्, अषि समुच्चये' अनुपेक्षणीयम् = उपेक्षाऽनहम् ।
समा०-स्थावराश्च जङ्गमाश्चेति स्थावरजङ्गमास्तेषां स्थावरलङ्गमानाम् । प्रत्यपहियन्तेऽन्न प्रत्यवहारः, सर्गश्च स्थितिश्च प्रत्यवहारश्चेति सर्गस्थितिप्रत्यवहाराः, तेषु हेतु सर्गस्थितिप्रत्यवहारहेतुः । आहितोऽग्निर्येन स आहिताग्निस्तस्थाहितानेः। उपेक्षितुं योग्यमुपेक्षणीयं न उपेक्षणीयमनुपेक्षणीयम् । . को०- 'सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु' इति । धनं वित्ते च गोधने इति चामरसेदिन्यो।
ता०-सकलजगदुद्भवस्थित्यन्तकारणं स भगवान् शिवो मे पूज्योऽत एव तदी. यानुशासनस्य सर्वथाऽनुल्लङ्घनीयत्वमस्ति, तथा च गुरोरपि नश्यदिदं गोरूपं धनं नोपेक्षणाहमस्ति।

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149