Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
४२
रघुवंशमहाकाव्यम्- [द्वितीयःइन्दुः-हे राजन् ! यदि तुम्हारी प्राणियों पर दया है, तो तुम्हारे मर जाने पर केवल यही एक गौ कल्याण से युक्त हो सकती है। हे प्रजाओं के स्वामी महाराज दिलीप ! आप जीते हुए निश्चय ही पिता के समान प्रजाओं की विधनों से निरन्तर रक्षा कर सकते हैं ॥४८॥ न धर्मलोपादियं प्रवृत्तिः किन्तु गुरुभयादित्यत आहअथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमा विभेषि । शक्योऽस्य मन्युभवता विनेतुं गाः कोटिशः स्पर्शयता घटोनीः ॥४६॥
सजी०-अथेति । अथ पक्षान्तरे, अथवा। एक्व धेनुर्यस्य तस्मात् । अयं कोपकारणोपन्यास इति ज्ञेयम्, अत एवापराधे गवोपेक्षालक्षणे सति चण्डादतिकोपनात, 'चण्डस्त्वत्यन्तकोपनः' इत्यमरः। अत एव कृशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद् गुरोर्विभेषि। इति काकु: 'भीत्रार्थानां भयहेतुः' इत्यपादानात्पञ्चमी । अल्पवित्तस्य धनहानिरतिदुःसहेति भावः । अस्य गुरोर्मन्युः क्रोधः 'मन्यु. देन्ये क्रती अधि'इत्यमरः। घटा इवोधांसि यासां ता धटोनीः । 'ऊघसोऽनङ् इत्यनादेशः 'बहुवीहेरूधसो डीप' इति डीप। कोटिशो गाः स्पर्शयता प्रतिपादयता। 'विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्' इत्यमरः। भवता विनेतुमपनेतुं शक्यः ।
अ०-अथ, एकधेनोः, अपराधचण्डाद, कृशानुप्रतिमात्, गुरोः विभेषि, 'त्वम् अस्य, मन्युः, घटोनीः कोटिशः, गाः, स्पर्शयता भवता विनेतुं शक्यः। वा०-त्वया भीयते अस्य मन्युं गाः स्पर्शयन् भवान् विनेतुं शक्नुयात् ।
सुधा-अथ = पक्षान्तरे, एकधेनो केवलसुरभेः, 'अत एव' इति शेषः । अपराधचण्डात् = आगोऽत्यन्तकोपनात्, अत एव' कृशानुपतिमात्=पावकप्रतिमानात्, गुरोः= वसिष्ठात्, विभेषित्रस्यसि, अस्य = एतस्य मन्युः क्रोधः, घटोनी कलशापीनवतीः, कोटशः =कोटिसङ्ख्यकाः, गाः-सौरभेयीः, स्पर्शयता = ददता, भवता स्वया, विनेतुं दूरीकर्तुम् । शक्यः = क्षमः, अस्तीति शेषः । ___ तमा०–एकैव धेनुर्यस्य स एकधेनुस्तस्मादेकधेनोः अपराधे चण्डोऽपराधचण्डस्तस्मादपराधचण्डात् । कृशानुः प्रतिमा यस्य स कृशानुप्रतिमस्तस्मात्कृशानुप्रति मात् । घटा इवोधांसि यासां ता घटोन्यस्ता घटोनीः। __ को०-'आगोऽपराधो मन्तुश्च' इति । 'प्रतिमानं प्रतिविम्वं प्रतिमा प्रतियातना प्रतिच्छाया। प्रतिकृतिरर्चा प्रतिनिधिः' इति चामरः । ___ ता०-हे राजन् यदि नन्दिनीनाशरूपापराधेनातिक्रुद्धस्य गुरोर्भयं करोपि, तहि पयस्विनीः कोटिशो गाः ददत् त्वं तस्य क्रोधशान्ति कत्त क्षमोऽस्यतो धेनुरक्षाऽर्थमनुनयस्ते वृथैव ।।
इन्दुः-अथवा हे राजन् ! एक ही है धेनु जिसके अत एव गौ की रक्षा न करने रूप अपराध होने से अत्यन्त क्रुद्ध हुए, अग्नि के तुल्य अपने गुरु वसिष्ठजी से यदि

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149