Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 124
________________ ४० रघुवंशमहाकाव्यम् [द्वितीय शकलानि खण्डानि कर्वन् । निरस्यनित्यर्थः । किञ्चिद्विहस्यार्थपतिं नृपं भूयो बभाषे । हस्यकारणम् 'अल्पस्य हेतोर्वहु हातुमिच्छन्' इति वक्ष्यमाणं द्रष्टव्यम् । भ०-अथ, भूतेश्वरपार्थवी, सः, गिरिगह्वराणाम्, अन्धकार, दंष्ट्रामयूखै शकलानि, कुर्वन्, किञ्चिद्, विहस्य, अर्थपति, भूयः, वभाषे। वा०-अथ भूतेश्वरपार्श्ववत्तिना तेन कुर्वताऽर्थपतिर्भूयो बभाषे। सुधा०-अथ = अनन्तरं, भूतेश्वरपार्श्ववत्ती-गिरीशसमीपस्थायी, साम्कुम्भोदर नामा सिंहः, गिरिहराणां-पर्वतगुहानां, हिमालयपर्वतस्याकृत्रिने बिल इति भावः अन्धकारं तिमिरं, दंष्ट्रामयूखैः = निशितदन्तकिरणैः, शकलानि-खण्डानि, कुर्वन्: विदधत्, दूरीकुर्वन्निति यावत् । किञ्चित् = स्वल्पं, विहस्य =स्मितं कृत्वा, अर्थपतिः द्रविणस्वासिनं, राजानं दिलीपमिति यावत् । भूयः = पुना, बभापे = उवाच ।। ___ समा०-निरर्गह्वराणि गिरिगह्वराणि तेषां निरिगह्वराणाम् । दशन्त्येभिरिति दंष्टास्तासां मयूखा दंष्टामयूखास्तेष्टामयूखैः। भूतानामीश्वरो भूतेश्वरः, पार्श्वयो. वर्तितुं शीलमस्येति पार्श्ववर्ती भूतेश्वरस्य पार्श्ववर्ती भूतेश्वरपार्श्ववर्ती । __ कोशः–'अन्धकारोऽस्त्रियां ध्वान्तम्' इत्यमरः। 'भूयाँस्त्रिषु बहुतरे पुनरर्थे त्वदोऽव्ययम्' इति मेदिनी। ता०–गवार्थे स्वतनुं परित्यक्तुमुद्यतं नृपं दृष्ट्वा सिंहः पुनरपि किञ्चिद् विहस्य तं प्रत्युवाच। ___इन्दुः०--दिलीप के कह चुकने के बाद भगवान् शङ्कर के पास का रहने वाला वह सिंह हिमालय पर्वत की गुफाओं के अन्धकार को दाँतों की कान्ति से टुकड़े. टुकड़े करता हुआ कुछ हँसकर दिलीप से फिर बोला ॥ ४६॥ एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च । अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् ।। ४७ ॥ ___ सजी०-एकातपत्रमिति । एकातपत्रमेकच्छत्रं जगतः प्रभुत्वं स्वामित्वम् । नवं वयो यौवनम् । इदं कान्तं रम्यं वपुश्च । इत्येव बहु अल्पस्य हेतोरल्पेन कारगेन, अल्पफलायेत्यर्थः । 'षष्ठी हेतुप्रयोगे' इति षष्ठी । हातुं त्यक्तुमिच्छंस्त्वं विचारे कार्यकार्यविमर्शे मूढो मूों मे मम प्रतिभासि। अ०-एकातपत्रं, जगतः, प्रभुत्वं, नवं, वया, इदं, कान्तं वपुः, च एतत्सर्व बहु अल्पस्य हेतोः हातुम्, इच्छन्, त्वं, विचारमूढः, मे प्रतिभासि। ___ वा०-हातुमिच्छता त्वया विचारमूढेन मे प्रातिभायते। सुधा-एकातपत्रम् = अद्वितीयच्छन्नम्, जगतः = लोकस्य प्रभुत्वं = स्वमित्वं, नवं = नवीनं, वया= अवस्था, इदम् = एतद्, कान्तं मनोरम, वपुः= शरीरं च = समच्चयेऽर्थे, 'एतत्सर्व' वहु-बहुलम्, अल्पस्य = स्तोकस्य, हेतोः कारणात्, हातुम्

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149