Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 128
________________ ४४ रघुवंश महाकाव्यम् [ द्वितीयः प्रतिस्वनेन शिलोच्चयः शैलोऽपि प्रीत्या तमेवार्थं चितिपालमुच्चैरभाषतेव । इत्यु स्प्रेक्षा । भाषिरयं ब्रुविसमानार्थकत्वाद् द्विकफः बुविस्तु द्विकर्मकेषु पठितः । तद् क्कम = ( दुहियाचिरुधिप्रच्छ्रिभित्तिचित्रा सुप्योगनिमित्तम पूर्वविधौ । ब्रु विशा सिगणेन च यत्सचते तदकीर्त्तितमाचरितं कविना ॥ ) इति । अ० -मृगेन्द्रे, एतावत् उक्त्वा, विरते, 'सिति' गुहागतेन, अस्य, प्रतिस्वनेन, शिलोच्चयः, अपि, प्रीत्या, तम, एव अर्थ, चितिपालम्, उच्चैः, अभाषत इव । वा० - शिलोच्चयेनापि प्रीत्या स एवार्थः, क्षितिपाळ मुच्चैरभाप्यतेव । सुधा -- मृगेन्द्र = सिंहे, एतावत् = इत्येतत्पर्यन्तम, उक्त्वा = कथयित्वा विरते= निवृत्ते सतीति शेषः । गुहागतेन = गह्वरप्राप्तेन, अस्य = सिंहस्य, प्रतिस्वनेन = प्रति शब्देन, शिलोच्चयः = हिमाचलः, अपि समुच्चये, प्रीत्या हर्षेण, तम् = पूर्वोक्तम्, एव = अवधारणे, अर्थम् = अभिधेयं, क्षितिपालं-महीपतिम् उच्चैः = तारस्वरेण, अभाषत = अकथयत्, इव = यथा । स - एतत्परिमाणमस्येत्येतावत् । गुहां गतो गुहागतस्तेन गुहागतेन । क्षितिं पालयतीति क्षितिपालस्तं चितिपालम् । कोशः - 'मुत्प्रीतिः प्रमदो हर्षः' इत्यमरः । aro - एतावत् कथयित्वा सिंहे तूष्णीम्भूते सति तस्य हिमालयगुहागतप्रति ध्वनिना पर्वतोऽपि सहवासकृतसौहार्देन तमेवार्थं नृपमुच्चैरभाषतेव । इन्दुः- सिंह के इतना कहकर चुप हो जानेपर गुफा में पहुँची हुई इसकी प्रति वन द्वारा पर्वत भी प्रेमले मानो उसी वातको राजा दिलीपसे जोरसे कहने लगा ॥ निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच । धेन्वा तदध्यासितकातराच्या निरीक्ष्यमाणः सुतरां दयालुः ॥ ५२ ॥ सञ्जी० - निशम्येति । देवानुचरस्येश्वर किङ्करस्य सिंहस्य वाचं निशम्य मनुष्यदेवो राजा पुनरप्युवाच । किम्भूतः सन् । तेन सिंहेन यदध्यासितं व्याक्रमणम् । 'नपुंसके भावे क्तः' । तेन कातरे अक्षिणी यस्यास्तया । 'बहुव्रीहौ सक्थ्यचणोः स्वाङ्गात्षच्' इति षच्। ‘षिद्वौरादिभ्यश्च' इति ङीष् । किं वा वच्यतीति भोत्यैवं स्थितयेत्यर्थः । धेन्वा निरीचयमाणः । अतएव सुतरां दयालुः सन् । सुतरामित्यत्र " द्विवचनविभज्यो०' इत्यादिना सुशब्दात्तरप् । 'किमेत्तिङव्ययवाद । स्वद्रव्यप्रकर्पे ' इत्यनेनाम्प्रत्ययः । 'तद्धितश्चासर्वविभक्तिः' इत्यन्ययसंज्ञा । अ० - देवानुचरस्य, वाचं, निशम्य, मनुष्यदेवः, पुनः, अपि उवाच, 'किम्भूतः सन्' तदध्यासितकातराच्या, धेन्वा, निरीक्ष्यमाणः, 'अत एव' सुतरां, दयालुः, 'सन्' । वा० - मनुष्यदेवेन पुनरप्यूचे, धेन्वा निरीक्ष्यमाणेन दयालुना सता । सुधा – देवानुचरस्य = महादेव किङ्करस्य, वाचं वाणीं, 'किम्भूतः सन्' निशम्य = श्रुत्वा, मनुष्यदेवः = महाराजः, पुनः = भूयः, अपि समुच्चये, उवाच =जगाद, तदध्या

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149