Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 115
________________ ३१ सर्गः] सखीविनी-सुधेन्दुटीकात्रयोपेतम् । इन्दुः हे पृथ्वी के पालन करनेवाले महाराज दिलीप ! आपका श्रम करना वृथा है, अतः रहने दीजिये क्योंकि-मेरे ऊपर चलाया हुआ अस्त्र भी वैसा ही व्यर्थ होगा जैसा कि पेड़ों को उखाड़ने की शक्ति रखने वाले वायु को वेग पर्वतके विषय में व्यर्थ होता है ॥३४॥ कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् | अवेहि मां किरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ ३५ ॥ सञ्जी०-कैलासेति । कैलास इव गौरः शुभ्रस्तम् । 'चामीकरं च शुभ्रं च गौरमाहर्मनीषिणः' इति शाश्वतः । वृष वृषभमारुरुक्षोरारोदुमिच्छोः । स्वस्योपरि पदं. निक्षिप्य वृषमारोहतीत्यर्थः । भष्टौ मूर्तयो यस्य सः, तस्याष्टमूर्तेः शिवस्य पादार्पणं पादन्यासस्तदेवानुग्रहः प्रसादस्तेन पूतं पृष्ठं यस्य तं तथोक्तम् । निकुम्भमित्रं कुम्भो. दरं नाम किक्कर मामवेहि विद्धि । 'पृथिवी सलिलं तेजो वायुराकाशमेव च । सूर्याचन्द्रमसौ सोमयाजी चेत्यष्टमूर्तयः' इति यादवः।। . अ०-कैलासगौरं वृषम्, आरुरुक्षोः, अष्टमूर्तेः, पादार्पणानुग्रहपूतपृष्ठं, निकुम्भमित्रं कुम्भोदरं नाम, किङ्करम्, माम्, अवेहि। वा०-पादार्पणनुग्रहपूतपृष्ठो निकुम्भमित्रं कुम्भोदरः किङ्करोऽहमवेये 'त्वया'। सुधा०-कैलासगौरं = रजतादिश्वेतं, वृषभम् = ऋषभम्, आरुरुक्षोः = आरोहणं कर्तुमिच्छोः, अष्टमूर्तेः = उमापतेः, पादार्पणानुग्रहपूतपृष्ठम् = अघिदानाभ्युपपत्ति पवित्रपृष्ठदेशम्, निकुम्भमित्रं = निकुम्भाख्यशिवानुचरसुहृदं, कुम्भोदरं,=कुम्भोदरेत्याख्यं, नाम = प्रसिद्धौ, 'कुम्भोदर' इति नाम्ना प्रसिद्धमिति भावः । किङ्करम् परिचारकं, मां= सिंहम्, अवेहि =विद्धि । समा०–कैलास इव गौर इति कैलासगौरस्तं कैलासगौरम् । आरोढुमिच्छतीत्यारुरुचुस्तस्यारुरुक्षोः। पादयोरर्पणं पादार्पणं तदेवानुग्रहः पादार्पणानुग्रहस्तेन पूतं पादार्पणानुग्रहपूतं तत् पृष्ठं यस्य स पादाणानुग्रहस्तं पूर्वोक्तम् । निकुम्भस्य मित्रं निकुम्भमित्रं तत्तथोक्तम् । अष्टौ मूर्तयो यस्यासावष्टमूर्तिस्तस्याष्टमूर्तेः। ___ कोशः–'नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारकाः' इति । 'नाम प्राकाश्यसम्माव्यक्रोधोपगमकुत्सने' इति चामरः । । ___ ता०-श्वेतवृषभोपरि सर्वदाऽऽरोहणं कर्तुमिच्छोः शिवस्य पादस्थापनेन पवित्रपृष्ठभागं निकुम्भमित्रं कुम्भोदरं नाम रुद्रानुचरं मां विद्धि । ___ इन्दुः-हे राजन् ! कैलासपर्वत के तुल्य श्वेत बैल पर चढ़ने की इच्छा करने वाली आठ (पृथ्वी-जल-तेज-वायु-आकाश-सूर्य-चन्द्र-सोमयाजी) हैं मूर्तियां जिनकी ऐसे शिवजी के चरण रखने रूप अनुग्रह से पवित्र पीठवाला, निकुम्भ (शिवजी का प्रसिद्ध गण) का मित्र, 'कुम्भोदर' नाम से प्रसिद्ध 'शिवजी का' नौकर मुझे तुम जानो ॥३५॥

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149