Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
रघुवंश महाकाव्यम् -
[ द्वितीय
समा०--आर्याणां गृह्य आर्यगृह्यस्तं तथोक्तम् । निगृहीता धेनुर्येन स निगृहीतः धेनुः, मनुष्यस्य वाग्, मनुष्यवाक् तया मनुष्यवाचा । मनोवंशो मनुवंशस्तस्य केतुर्मनुवंशकेतुस्तं मनुवंशकेतुम् । आत्मनो वृत्तिरात्मवृत्तिस्तस्यां तथोक्तायाम् । सिंहस्येष उरु सत्त्वं यस्य स सिंहोरुसत्त्वस्तं तथोक्तम् ।
३०
कोशः–'गृह्यं गुदे ग्रन्थभेदे क्लीवं शाखापुरे स्त्रियाम् । गृहासक्तमृगादौ ना, त्रिषु चास्वैरिपच्ययोः' इति मेदिनी । 'बड्रोरुविपुलम्' इत्यमरः ।
ता० - सिंहो बाहुस्तम्भरूपे व्यापारे परमाश्चर्यितं दिलीपं मनुष्यवाचा पुनरपि ततोऽधिकं विस्मय मापयन्नुवाच ।
इन्दुः- नन्दिनी को पीडित किया हुआ सिंह सज्जनों के पक्ष में रहनेवाले मनु वंश के द्योतक सिंह के समान महान् बलवान् अपने वाहुस्तम्भरूप व्यापार के विषय में चकित हुए उन राजा दिलीप को मनुष्यवाणी से पुनः चकित कराता हुआ बोला ॥ ३३ ॥
अलं महीपाल ! तब श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
1
न पादपोन्मूलनशक्ति रंह: शिलोच्चये मूर्च्छति सारुनस्य || ३४ ।। सञ्जी० - अलमिति । हे महीपाल ! तव श्रमेणालम् । साध्याभावाच्छूमो न कर्त्तव्य इत्यर्थः । अत्र गम्यमानसाधन क्रियापेक्षया श्रमस्य कारणत्वात् तृतीया । उक्त च न्यासोद्द्योते ( न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य । अपि तर्हि गम्यमानाऽपि ) इति । 'अथ भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । इतोऽस्मिन्मयि । सार्वविभक्तिकस्तसिः । प्रयुक्तमप्यस्त्रं वृथा स्यात् । तथाहिपादपोन्मूलने शक्तिर्यस्य तत्तथोक्तं, मारुतस्य रंहो वेगः, शिलोच्चये पर्वते न मूर्च्छति न प्रसरति ।
अ० – सहीपाल !, तव, श्रमेण, अलम्, इतः, प्रयुक्तम् अपि, अस्त्रं, वृथा, स्यात्, पादपोन्मूलनशक्ति, मारुतस्य, रंहः, शिलोच्चये न, मूच्छति ।
वा०—प्रयुक्तेनाप्यस्त्रेण वृथा भूयेत, पादपोन्मूलन शक्तिना रंहसा न मूर्च्छयते ।
सुवा - महीपाल ! = पृथ्वीपते, तव = भवतः, श्रमेण= प्रयासेन, अलं= वारणार्थकोऽयम् तवाखमोचनं भ्रमेण साध्यं नास्तीत्यर्थः । 'कुतः' इतः = अस्मिन् मयि । प्रयुक्तम् = प्रहृतम्, अपि = सम्भावनायाम्, अस्त्रम् = आयुधं, वृथा = निरर्थकं स्यात् = भवेत्, तथाहीति शेषः । पादपोन्मूलनशक्ति = वृक्षोत्पाटनसमर्थम्, मारुतस्य = पवनस्य, रंहः = वेगः, शिलोच्चये = शैले, न=नहि, मूच्छेति = वर्धते ।
समा०- - महीं पालयतीति महीपालस्तत्सम्बुद्धौ हे महीपाल ! पादपानामुन्मूलनं पादपोन्मूलनं तत्र शक्तिर्यस्य तत् पादपोन्मूलनशक्ति | शिलाभिरुच्चीयत इति शिलोच्चय स्तस्मिंस्तथोक्ते ।
कोशः – 'रंहस्तरसी तु रयः स्यदः' इति चामरः ।
ता०
2- हे पृथ्वीपते ! मयि रुद्रानुचरे वाणमोचनं प्रयासेन ते साध्यं नास्ति किल्ल प्रयुक्तोऽपि शरस्तथैव वृथा भविष्यति यथा पर्वते वायुवेगो विफलो भवति ।

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149