Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
२८
रघुवंशमहाकाव्यम्- [द्वितीयः ०–प्रहर्तुः, तस्य, वामेतरः, करः, नखप्रभाभूषितककपत्रे, सायकपुछे, एव सक्ताङ्गुलिः, 'सन्' चित्रार्पितारम्भः, इव, अवतस्थे। वा०-वामेतरेण करेण सक्ताङ्गुलिना चिन्नार्पितारम्भेणेवावतस्थे।
सुधा०-प्रहर्तः=ताडयितुः, तस्य दिलीपस्य, बामेतरा दक्षिणः, कर हस्तः, नखप्रभाभूषितकङ्कपत्रे नखरविण्मण्डितलोहपृष्ठपक्षे, सायकपुखे = शरमूले, एव= अवधारणे, सक्ताङ्गुलि:प्रसक्तकरशाखः, 'सन्' चित्रार्पितारम्भः = आलेख्यलिखि तशरनिष्कासनोद्योगः, इव= यथा, अवतस्थे = स्थितोऽभूत् ।
स०-वामादितरो वामेतरः । नखानां प्रभा नखप्रभाः, ताभिर्भूषितानि, नखप्रभाभूषितानि, कङ्कस्य पत्राणि कङ्कपत्राणि नखप्रभाभूषितानि कङ्कपत्राणि यस्य स नखप्रभाभूषितकङ्कपत्रस्तथोक्ते। सक्ता अङ्गुलयो यस्य स सक्ताङ्गुलिः । सायकस्य पुङ्खः सायकपुङ्खस्तस्मिंस्तथोक्के। चित्रेऽर्पितश्चित्रार्पितः, चित्रार्पित आरम्भो यस्य स चित्रापितारम्भः। ___ को०-'वामः सव्ये प्रतीपे च द्रविणे चातिसुन्दरे' इति विश्वः। 'इतरस्त्वन्य नीचयोः' इति । 'बलिहस्तांशवः कराः' इति चामरः।
ता०–प्रजिहीर्पया निषङ्गाद्वाणमुद्धर्तकामस्य दिलीपस्य वाणमूलसक्ताङ्गुलिः सन् दक्षिणहस्तश्चित्रलिखितशरोद्धरणोघम इव तस्थौ ।
इन्दुः-प्रहार करने वाले उन राजा दिलीप का दाहिना हाथ, अपने नख की कान्ति से भूपित, कङ्क पक्षी के पङ्घ जिसमें लगे हुए हैं ऐसे बाण के मूलप्रदेश में ही लगी हुई है अङ्गुलियाँ जिसकी ऐसा होता हुआ, चित्र में लिखे हुए बाण निकालने के उद्योग में लगे हुए की भाँति हो गया ॥३१॥
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णभागस्कृतमस्पृशद्भिः । राजा स्वतेजोभिरदह्यतान्तभोगीव सन्त्रौषधिरुद्धधीयः ॥ ३२॥
सजी०-वाहुप्रतिष्टम्भेति । वाह्वोः प्रतिष्टम्भेन प्रतिबन्धेन । 'प्रतिवन्धः प्रतिप्टम्भः' इत्यमरः । विवृद्धमन्युःप्रवृद्धरोषो राजा। मन्त्रौषधिभ्यां रुद्धवीर्यः प्रतिबद्धशक्तिोगी सर्प इव 'भोगी राजभुजङ्गयोः' इति शाश्वतः । अभ्यर्णमन्तिकम् । 'उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्'इत्यमरः। आगस्कृतमपराधकारिणमस्पृ. शद्भिः स्वतेजोभिरन्तरदह्यत । 'अधिक्षेपाचसहनतेजः प्राणात्ययेष्वपि' इति यादवः । ___ अ०-बाहुप्रतिष्टम्भविवृद्धमन्युः, राजा, मन्त्रौषधिरुद्धवीर्यः, भोगी, इव, अभ्यर्णम्, भागस्कृतम्, अस्पृशद्भिः, स्वतेजोभिः, अन्तर , अदह्यत ।
वा०-बाहुप्रतिष्टम्भविवृद्धमन्यु राजानम् मन्त्रौषधिरुद्धवीर्य भोगिनमिवाभ्यर्णमागस्कृतमस्पृशन्ति स्वतेजांस्यन्तरदहन् । ___सुधा०-बाहुप्रतिष्टम्भविवृद्धमन्युः भुजप्रतिवन्धरुद्धक्रोधः, राजा-दिलीपः, मन्त्रीपधिरुद्धवीर्यः सर्पविषशामकमन्त्रभैषज्यसंवीतपराक्रमः, भौगी-भुजङ्गः, इव-यथा,

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149