Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 111
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिनिषङ्गादुद्धर्तुमैच्छत् प्रसभोद्धृतारिः ॥ ३० ॥ सजी०-तत इति । ततः सिंहदर्शनानन्तरं मृगेन्द्रगामी सिंहगामी 'शरणं गृहरक्षित्रोः इत्यमरः । 'शरणं रक्षणे गृहे' इति यादवः । शरणे साधुः शरण्यः । 'तत्र साधुः' इति यत्प्रत्ययः। प्रसभेन बलात्कारेणोद्धता अरयो येन स नृपती राजा जाताभिषङ्गो जातपराभवः सन् । 'अभिषङ्गः पराभवः' इत्यमरः। वध्यस्य वधार्हस्य । 'दण्डादिभ्यो यः' इति यप्रत्ययः। मृगेन्द्रस्य वधाय निषङ्गात्तणीरात् । 'तुणोपासङ्गतूणीरनिषगा इषुधियोः इत्यमरः । शरमुद्धत्तमैच्छत् ।। अ०-ततः, मृगेन्द्रगामी, शरण्यः, प्रसभोद्धतारिः, नृपतिः, जाताभिषङ्गः, 'सन्' वध्यस्य, मृगेन्द्रस्य, वधाय, निषङ्गात्, शरम्, उद्धत्तम्, ऐच्छत् । . वा०-मृगेन्दगामिना शरण्येन प्रसभोद्धृतारिणा नृपतिना जाताभिषङ्गेण 'सता' शर उद्धर्तमप्यत। __सुधा-ततः= सिंहदर्शनानन्तरम्, मृगेन्द्रगामी= केसरिगमनशीलः, शरण्यः= रक्षणसाधुः, प्रसभोद्धृतारिम् हठोस्तिप्तशत्रुः, नृपति नराधिपः, दिलीपः। जाताभिषङ्गः = उत्पन्नपराभवः, 'सन्' वध्यस्य-शीर्षच्छेद्यस्य, मृगेन्द्रस्थ =सिंहस्य, वधाय% घाताय, निषङ्गात् = इषुधेः, शरं = बाणम्, उद्धतम् = उत्क्षेप्तुम्, ऐच्छत् = इयेष । समा०-मृगेष्विन्द्रो मृगेन्द्रस्तस्य मृगेन्द्रस्य । मृगेन्द्र इव गच्छतीति मृगेन्द्रगामी । वधमहतीति वध्यस्तस्य वध्यस्य । जातोऽभिषङ्गो यस्य स जाताभिषङ्गः। प्रसभेनोद्धताः प्रसभोद्धताः, प्रसभोद्धताः, अरयो येन सः प्रसभोतारिः। कोशः-'पृषत्कबाणविशिखा अजिह्मगखगाशुगाः। कलम्बमार्गणशराः पत्त्री रोप इषुर्द्वयोः' इति । 'प्रसभं तु बलात्कारो, हठः' इति चामरः। ता०-राजा दिलीपः सिंहाक्रान्तनन्दिनीं दृष्ट्वा तद्रक्षितुः स्वस्य च पराभवं मत्वा तत्क्षण एव सिंहवधार्थं तूणीराद् बाणमुद्धर्तुमैच्छत् । ___ इन्दुः-सिंह के दर्शन के बाद मृगेन्द्र की तरह चलनेवाले, रक्षा करने में निपुण, शत्रुओं को बलपूर्वक उखाड़ने वाले, अपमान पाये हुए, राजा दिलीप ने सिंह को मारने के लिये तरकस से बाण निकालने की इच्छा की ॥३०॥ वामेतरस्तस्य कर प्रहत्तुनख पभाभूषितकङ्कपत्रे सक्ताङ्गुलिः सायकपुड एव चित्रापितारम्भ इवावतस्थे ॥ ३१ ।। सजी०-चामेतर इति । प्रहर्तस्तस्य वामेतरो दक्षिणः करः । नखप्रभाभिर्भूषितानि विच्छुरितानि कङ्कस्य पक्षिविशेषस्य पत्राणि यस्य तस्मिन् । 'कङ्कः पक्षिविशेषे स्याद् गुप्ताकारे युधिष्ठिरे" इति विश्वः। 'कङ्कस्तु कर्कट' इति यादवः । सायकस्य पुङ्ख एव कर्तर्याख्ये मूलप्रदेशे। 'कर्त्तरिः पुढे' इति यादवः। सक्काङ्गुलिः सन् । चित्रार्पितारम्भश्चित्रलिखितशरोद्धरणोद्योग इव अवतस्थे ।

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149