Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 109
________________ सर्गः ] सञ्जीविनी - सुधेन्दुटी कात्रयोपेतम् | समर्पितनयनेन, नृपेणं=राज्ञा, दिलीपेन । अलक्षिताभ्युत्पतनः = मदृष्टाभिमुखाक्रमणः, सिंहः = केसरी, तां= धेनुम् । प्रसह्य=हठात् चकर्ष = कृष्टवान्, किल= अलीके | समा० - अद्रेः शोभाऽद्विशोभा तत्र प्रहिते अद्विशोभाप्रहिते अद्विशोभाप्रहिते ईक्षणे येन सोऽद्विशोभामहितेक्षणस्तेन तथोक्तेन । न लक्षित मभ्युत्पतनं यस्य सोऽलक्षिताभ्युत्पतनः । को० — 'शोभा कान्तिर्द्युतिश्छविः' इति । 'सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः' इति सर्वत्राप्यमरः । 'वार्तायामरुचौ किल' इति त्रिकाण्डकोषः । हिमालयशोभादर्शनासक्तमनसि सति नन्दिनीमायारचितः ता० - दिलीपे सिंहस्तां धेनुमनाक्षीत् । २५ इन्दुः - 'वह नन्दिनी हिंसक व्याघ्रादि दुष्ट जीवों द्वारा मन से भी बड़ी कठि नाई से कष्ट पहुँचाने के योग्य है' इस कारण निश्चिन्त हो हिमालय की शोभा देखने में दृष्टि को लगाये हुए राजा दिलीप के द्वारा जिसका आक्रमण करना नहीं देखा गया ऐसा मायाकृत सिंह हठात् उस नन्दिनी को बनावटी ढङ्ग से फाड़ने लगा ॥ २७ ॥ तदीयमाक्रन्दितमार्त साघोर्गुहा निबद्ध प्रतिशब्द दीर्घप | रश्मिष्विवादाय नगेन्द्रसक्तां निवर्त्तयामास नृस्य दृष्टिम् || २८ ॥ सजी० - तदीयमिति । गुहानिबद्धेन प्रतिशब्देन प्रतिध्वनिना दीर्घम् । तस्या इदं तदीयम् । आक्रन्दितमार्तघोषणम् आर्तेषु विपन्नेषु साधोर्हितकारिणो नृपस्य नगेन्द्रसतां दृष्टिम् । रश्मिषु प्रग्रहेषु 'करणप्रग्रहौ रश्मी' इत्यमरः । आदायेव, गृहीत्वेव निवर्तयामास । अ० - गुहानिबद्धप्रतिशब्ददीर्घं, तदीयम्, आक्रन्दितम्, आर्त्तसाधोः, नृपस्य नगेन्द्रसक्तां दृष्टिं, रश्मिषु, आदाय, इव, निवर्तयामास । वा० - गुहानिबद्धप्रतिशब्द दीर्घेण तदीयेन क्रन्दितेन नगेन्द्रसक्ता दृष्टिर्निवर्तयाञ्चक्रे । सुधा०—गुहानिबद्धप्रतिशब्ददीर्घं = गह्वरप्रतिहतप्रतिनिनादायतं, तदीयं = तत्स म्वन्धि, नन्दिन्याः । आक्रन्दितम् = उच्चैरुदितम्, आर्त्तसाधोः = विपन्नविपन्निवा रकस्य, नृपस्य = राज्ञो दिलीपस्य । नगेन्द्रसक्तां = शैलराजशोभादर्शनलग्नां, दृष्टि = नेत्रं, रश्मिषु =प्रग्रहेषु, आदाय = गृहीत्वा, इव = यथा, निवर्त्तयामास = न्यवर्त्तयत् । समा०- - आर्त्तषु साधुरार्त्तसाधुस्तस्यार्त्तसाधोः । गुहायां निबद्धो गुहानिबद्धः, गुहानिवद्धश्चासौ प्रतिशब्दः गुहानिबद्ध प्रतिशब्दस्तेन दीर्घं गुहानिबद्धप्रतिशब्ददीर्घम् । नगेष्विन्द्रो नगेन्द्रस्तत्र सक्ता तां तथोक्तास् । को० – 'शब्दे निनादनिनदध्वनिध्वानरवस्वनाः' इति । 'शैलवृक्षौ नगावगौ' इति चामरः । ता० - सिंहाक्रमणेन गुहायां प्रतिहतेन प्रतिध्वनिना दीर्घ नन्दिन्या आक्रन्दनं

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149