Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 100
________________ १६ रघुवंश महाकाव्यम् [ द्वितीय प्रत्यक्षा, श्रद्धा = आस्तिक्यबुद्धिः, इव = यथा, बभौ = शुशुभे, च = पुनः, अन्वाease चकारो बोध्यः । तमा० -- देवताश्च पितरश्चातिथयश्चेति देवतापित्रतिथयः, तासां क्रिया देवतापित्रतिथिक्रियाः ता एवार्थः प्रयोजनं यस्याः सा देवतापित्रतिथिक्रियाऽर्था तां तथोकाम् | अन्वञ्चतीत्यन्वग् । मध्ये भवो मध्यमः, मध्यमभासौ लोको मध्यमलोकः, तम्पालयतीति मध्य मलोकपालः । कोशः -- 'लोकस्तु भवने जने' इति । 'साक्षात् प्रत्यक्ष तुल्ययोः' इति । 'विधिवि धाने देवेऽपि' इति चामरः । ता०- -- पृथ्वीपतिर्दिलीपो देवादिनिमित्तकयागादिसाधिकां तां धेनुमनुगच्छन् सन् ययौ, साधुजनपूजितेन तेन युक्ता सती साऽपि साक्षादनुष्ठानेन युक्ताऽऽस्तिक्यबुद्धिरिव शुशुभे । इन्दुः -- भूलोक के पालन करने वाले राजा दिलीप देवता, पितर और अतिथि लोगों के कार्य (यज्ञ, श्राद्ध भोजनादि ) को साधने वाली, उस धेनु के पीछे-पीछे चले, और सज्जनों के द्वारा पूजित उनसे युक्त, वह ( नन्दिनी ) भी सज्जनों से किये गये अनुष्ठान से युक्त श्रद्धा जैसी सुशोभित होती है वैसी सुशोभित होने लगी ॥१६॥ पल्बलोत्तीर्णवराहायूथान्यावास वृक्षोन्मुख बहिणानि । स मृगाध्यासनशाद्वलानि श्या मायमानानि वनानि पश्यन् ॥ १७ ॥ सञ्जी० -- स इति । स राजा । पल्वलेभ्योऽल्पजलाशयेभ्य उत्तीर्णानि निर्गतानि वराहाणां यूथानि कुलानि येषु तानि । वर्गाण्येषां सन्तीति वर्हिणा मयूराः । 'मयू रो वहिणो पर्ही' इत्यमरः । 'फलबर्हाभ्यामिनच्प्रत्ययो वक्तव्यः' आवासवृक्षणामु न्मुखा वर्हिणा येषु तानि श्यामायमानानि वराहबर्हिणादिमलिनिम्ना, अश्यामानि श्यामानि भवन्तीति श्यामायमानानि । 'लोहितादिढाऽभ्यः क्यप्' इति क्यप् प्रत्ययः । ' वा क्यषः' इत्यात्मनेपदे शानच् । मृगैरध्यासिता अधिष्ठिताः शाद्वलो येषु तानि । शादाः शप्पाण्येषु देशेषु सन्तीति शाद्वलाः शप्पश्यामदेशाः । 'शाद्वलः शादहरिते' इत्यमरः । ‘शादः कर्दुमशष्पयोः' इति विश्वः । 'नडशादाड्ड्वलच्' इति ड्वलच्प्रत्ययः । वनानि पश्यन्ययौ । अ० -- सः, पल्वलोत्तीर्णवराहयूथानि, आवासवृक्षोन्मुखवर्हिणानि, मृगाध्यासितशाद्वलानि, श्यामायमानानि वनानि, पश्यन्, सन् ययौ । वा०-- तेन पश्यता सता यये । सुधा -- सः = राजा दिलीपः, पल्वलोत्तोर्णवराहयूथानि = अल्पसरो निर्यात शूकरसमूहानि, आवासवृक्षोन्मुख वर्हिणानि = निवासार्थपादपाभिमुखशिखावलानि, मृगाध्यासितशाद्वलानि = हरिणाधिष्ठित शादहरितानि, 'अत एव शूकरमयूरशष्पादीनां श्यामतया' श्यामायमानानि = कृष्णीभूतानि वनानि = अरयानि, पश्यन् = कयन्, 'सन्' ययौ = जगाम । • अवलो

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149