Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 102
________________ १८ रघुवंश महाकाव्यम् - [ द्वितीय तस्मिन् प्रयत्न आपीनभारोद्वहनप्रयत्नस्तस्मादापीनभारोद्वहनप्रयत्नाद् । गुरोर्भावो गुरुत्वं तस्माद् गुरुश्वात् । नरेष्विन्द्रो नरेन्द्रः, तपसो वनं तपोवनं तपोवनादावृत्तिस्तपोवनावृत्तिः; तस्याः पन्थास्तपोवनावृत्तिपथस्तं पूर्वोक्तम् । कोशः–‘गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति विश्वः । 'पूजितेऽञ्चितः ' इत्यमरः । ता०- - नन्दिनी बृहदूधो भारवहनप्रयासाद्दिलीपश्च स्वशरीरस्य स्थौल्यादुभावपि मनोहरगमनाभ्यां तपोवनपरावर्त्तनमार्ग शोभितवन्तौ । इन्दुः-- पहली बार की ब्याई हुई नन्दिनी और राजा दिलीप इन दोनों के क्रम से ( नन्दिनी ने ) स्तनों के भार के धारण करने में प्रयास करने तथा ( राजा दिलीप ने ) शरीर की स्थूलता के कारण अपने २ सुन्दर गमन से तपोवन से लौटने के मार्ग को सुशोभित किया ॥ १८ ॥ वसिष्ठधेनोरनुयायिनं समावर्त्तमानं वनिता वनान्तात् | पपौ निमेषालखपदमपतिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ १६ ॥ सञ्जी० - वसिष्ठेति । वसिष्ठधेनोरनुयायिनमनुचरं वनान्तादावर्त्तमानं प्रत्यागतं तं दिलीपं बनिता सुदक्षिणा निमेषेष्वलसा मन्दा पचमणां पङिक्तिर्यस्याः सा निर्नि मेषा सतीत्यर्थः । लोचनाभ्यां करणाभ्याम् उपोषिताभ्यामिव उपवासो भोजननिवृत्तिस्तद्वद्भयामिव । वसतेः कर्त्तरि क्तः । पपौ । यथोपोषितोऽतितृष्णया जलमधिकं पिवति तद्वदतितृष्णयाऽधिकं व्यलोकयदित्यर्थः । अ० - वसिष्ठधेनोः अनुयायिनं, वनान्ताद्, आवर्त्तमानं तं वनिता निमेषालसपचमपक्तिः (सती), लोचनाभ्याम्, इव, पपौ । वा० - अनुयायी वनान्तादावर्तमानः स वनितया निमेषालसपचमपक्तधा (सत्या) पपे । सुधा - वसिष्ठधेनोः = नन्दिन्याः, अनुयायिनम् = अनुचरम् वनान्तात् = विपि नप्रान्ताद्, आवर्त्तमानम् = प्रत्यायान्तं तं = दिलीपं, वनिता = महिला, सुदक्षिणा । निमेषालसपचमपङ्क्तिः = निमीलन निष्क्रिय नेत्र लोमावलिः, 'सती' लोचनाम्यां नय नाभ्याम् 'करणाभ्याम्' । उपोषितांभ्यां गृहीतोपवासाभ्याम्, इव = यथा, पपौ= पीतवती, ददर्शेति भावः । = समा० – अयमनयोरतिशयेन वसुमानिति वसिष्ठस्तस्य धेनुर्वसिष्ठधेनुस्तमात्त थोक्तायाः । वनस्यान्तो वनान्तः, तस्माद्वनान्तत् । निमेषेष्वलसा निमेषालला पचम णां पङ्क्तिः पचमपतिः निमेषालसा पचमपङ्क्तिर्यस्याः सा निमेषालसपचमपङ्क्तिः को० - 'वनिता महिला तथा' इति । 'वीथ्यालिरावलिः पङ्क्तिः श्रेणी' इति चामरः ता० - यथा गृहीतोपवासाऽतितृष्णया काचिज्जलमत्यर्थं पिवति तथव सुद क्षिणा वनान्निवर्तमानं दिलीपं नेत्राभ्यां सतृष्णमधिकं निनिमेषं ददर्श ।

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149