________________
१८
रघुवंश महाकाव्यम् -
[ द्वितीय
तस्मिन् प्रयत्न आपीनभारोद्वहनप्रयत्नस्तस्मादापीनभारोद्वहनप्रयत्नाद् । गुरोर्भावो गुरुत्वं तस्माद् गुरुश्वात् । नरेष्विन्द्रो नरेन्द्रः, तपसो वनं तपोवनं तपोवनादावृत्तिस्तपोवनावृत्तिः; तस्याः पन्थास्तपोवनावृत्तिपथस्तं पूर्वोक्तम् ।
कोशः–‘गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति विश्वः । 'पूजितेऽञ्चितः ' इत्यमरः ।
ता०- - नन्दिनी बृहदूधो भारवहनप्रयासाद्दिलीपश्च स्वशरीरस्य स्थौल्यादुभावपि मनोहरगमनाभ्यां तपोवनपरावर्त्तनमार्ग शोभितवन्तौ ।
इन्दुः-- पहली बार की ब्याई हुई नन्दिनी और राजा दिलीप इन दोनों के क्रम से ( नन्दिनी ने ) स्तनों के भार के धारण करने में प्रयास करने तथा ( राजा दिलीप ने ) शरीर की स्थूलता के कारण अपने २ सुन्दर गमन से तपोवन से लौटने के मार्ग को सुशोभित किया ॥ १८ ॥
वसिष्ठधेनोरनुयायिनं समावर्त्तमानं वनिता वनान्तात् |
पपौ निमेषालखपदमपतिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ १६ ॥ सञ्जी० - वसिष्ठेति । वसिष्ठधेनोरनुयायिनमनुचरं वनान्तादावर्त्तमानं प्रत्यागतं तं दिलीपं बनिता सुदक्षिणा निमेषेष्वलसा मन्दा पचमणां पङिक्तिर्यस्याः सा निर्नि मेषा सतीत्यर्थः । लोचनाभ्यां करणाभ्याम् उपोषिताभ्यामिव उपवासो भोजननिवृत्तिस्तद्वद्भयामिव । वसतेः कर्त्तरि क्तः । पपौ । यथोपोषितोऽतितृष्णया जलमधिकं पिवति तद्वदतितृष्णयाऽधिकं व्यलोकयदित्यर्थः ।
अ० - वसिष्ठधेनोः अनुयायिनं, वनान्ताद्, आवर्त्तमानं तं वनिता निमेषालसपचमपक्तिः (सती), लोचनाभ्याम्, इव, पपौ । वा० - अनुयायी वनान्तादावर्तमानः स वनितया निमेषालसपचमपक्तधा (सत्या) पपे ।
सुधा - वसिष्ठधेनोः = नन्दिन्याः, अनुयायिनम् = अनुचरम् वनान्तात् = विपि नप्रान्ताद्, आवर्त्तमानम् = प्रत्यायान्तं तं = दिलीपं, वनिता = महिला, सुदक्षिणा । निमेषालसपचमपङ्क्तिः = निमीलन निष्क्रिय नेत्र लोमावलिः, 'सती' लोचनाम्यां नय नाभ्याम् 'करणाभ्याम्' । उपोषितांभ्यां गृहीतोपवासाभ्याम्, इव = यथा, पपौ= पीतवती, ददर्शेति भावः ।
=
समा० – अयमनयोरतिशयेन वसुमानिति वसिष्ठस्तस्य धेनुर्वसिष्ठधेनुस्तमात्त थोक्तायाः । वनस्यान्तो वनान्तः, तस्माद्वनान्तत् । निमेषेष्वलसा निमेषालला पचम णां पङ्क्तिः पचमपतिः निमेषालसा पचमपङ्क्तिर्यस्याः सा निमेषालसपचमपङ्क्तिः को० - 'वनिता महिला तथा' इति । 'वीथ्यालिरावलिः पङ्क्तिः श्रेणी' इति चामरः ता० - यथा गृहीतोपवासाऽतितृष्णया काचिज्जलमत्यर्थं पिवति तथव सुद क्षिणा वनान्निवर्तमानं दिलीपं नेत्राभ्यां सतृष्णमधिकं निनिमेषं ददर्श ।