________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् |
इन्दुः-वसिष्ठ महर्षि की नई व्याई हुई नन्दिनी नाम की धेनु के पीछे पीछे चलनेवाले तपोवन के प्रान्त भाग से लौटते हुए उन राजा दिलीप को स्नेह करने वाली रानी सुदक्षिणा ने नेत्र के बन्द करने में आलसी बरौनियों वाली होती हुई अर्थात् एक टक से) प्यासे की भाँति आंखों से पिया अर्थात् देखा ॥ १९॥
पुरस्कृता वमनि पार्थिवेन प्रत्युद्गता पाथिवधर्मपत्न्या । तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥२०॥ सञ्जीविनी–पुरस्कृतेति । वम॑नि पार्थिवेन पृथिव्या ईश्वरेण । 'तस्येश्वरः' इत्यअत्ययः। पुरस्कृताऽग्रतः कृता धर्मस्य पत्नी धर्मपत्नी धर्मार्थपत्नीत्यर्थः । अश्वधासादिवत्तादर्थे षष्ठीसमासः। पार्थिवस्य धर्मपत्न्या प्रत्युद्धता सा धेनुस्तदन्तरे तयोर्दम्पत्योर्मध्ये । दिनक्षपयोदिनराज्योर्मध्यगता सन्ध्येव विरराज। __ अ०-वर्मनि, पार्थिवेन, पुरस्कृता, पार्थिवधर्मपत्न्या, प्रत्युद्गता, सा, धेनुः, तदन्तरे दिनक्षपामध्यगता, सन्ध्या, इव, विरराज ।
वा०-पुरस्कृतया प्रत्युद्गतया तया धेन्वा दिनक्षपामध्यगतया सन्ध्ययेव विरेजे ।
सुधा-वस्मनिमार्गे, पार्थिवेन-पृथ्वीश्वरेण, दिलीपेन । पुरस्कृता-अग्रतः कृता, पार्थिवधर्मपत्न्या = पृथ्वीश्वरसुकृतार्थजायया, सुदक्षिणया । प्रत्युद्गता= स्वागतार्थमभ्युद्गता, सा= पूर्वोक्ता, धेनु:= गौः, नन्दिनीति यावत् । तदन्तरं तयोर्मध्यो, सुदक्षिणादिलीपयोरन्तरालभागे स्थिता। दिनक्षपामध्यगता= दिवसरजन्यन्तास्थिता, सन्ध्या सायङ्कालः, इव = यथा, विरराज% शुशुभे। ___ समा०-पृथिव्या ईश्वरः पार्थिवस्तेन पार्थिवेन । धर्मस्य पत्नी, धर्मपत्नी, पार्थिवस्य धर्मपत्नी पार्थिवधर्मपत्नी तया तथोक्तया। तयोरन्तरं तदन्तरं तस्मिंस्तदन्तरे । दिनञ्च क्षपा चेति दिनक्षपे, तयोर्मध्यं दिनक्षपामध्यं, दिनक्षपामध्यङ्गता दिनक्ष. पामध्यगता। ___ को०-'घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ' इति । 'निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इति चामरः। ___ ता०-यस्मिन् समयेऽग्रेकृत्य नन्दिनीं दिलीपो वसिष्ठाश्रमं प्रापत् तदा दिलीपानुगम्यमानां तामानेतुं सुदक्षिणा तपोवनात्प्रत्युधयो, तस्मिन् क्षणे, सुदक्षिणादिलीपयोर्मध्यगता नन्दिनी पाटलवर्णतया दिनक्षपयोर्मध्यगता सन्ध्येव शुशुभे । ___ इन्दुः-मार्ग में राजा दिलीप द्वारा आगे की गई और उनकी पटरानी सुदक्षिणा से आगे जाकर ली हुई (अगवानी की गई) वह नन्दिनी सुदक्षिणा और दिलीप के बीच में दिन-रात के मध्य में स्थित सन्ध्याकाल की भांति शोभित हुई ॥२०॥
प्रदक्षिणाकृत्य पर्यास्वनी तां सुदक्षिणा साक्षतपात्रहस्ता। प्रणम्य पान विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः ।। २१ ॥