________________
रघुवंशमहाकाव्यम्-- [द्वितीयः___ सजी०-प्रदक्षिणीकृत्येति । अक्षतानां पात्रेण सह वर्त्तते इति साक्षतपात्री हस्तौ यस्याः सा सुदक्षिणा पयस्विनी प्रशस्तक्षीरां तां धेनुं प्रदक्षिणीकृत्य प्रणम्य छ । अस्या धेन्वा विशालं शृङ्गमध्यम् । अर्थसिद्धेः कार्यसिद्धारं प्रवेशमार्गमिव, आनर्चाचयामास। ____ अ०-साक्षतपात्रहस्ता, सुदक्षिणा, पयस्विनी, तां, प्रदक्षिणीकृत्य, प्रणम्य, च, अस्याः , विशालं, शृङ्गान्तरम्, अर्थसिद्धेः, द्वारम्, इव, आनर्च।
वा०-साक्षतपात्रहस्तया सुदक्षिणया आनर्चे ।
सुधा-साक्षतपात्रहस्ता=अखण्डतण्डुलभाण्डकरा, सुदक्षिणा दिलीपत्नी, पयस्विनी प्रशस्तक्षीरां, तांन्नन्दिनीम् । प्रदक्षिणीकृत्य = अपसव्येन परितो भ्रमणं कृत्वा, प्रणम्य-प्रणासं कृत्वा, चम्समुच्चयेऽर्थे, अस्याः धेन्वाः, विशालं विस्तीर्णम्, शृङ्गान्तरं विषाणमध्यम्, अर्थसिद्धेः प्रयोजननिष्पत्तेः, पुत्ररूपफलप्राप्तेरिति भावः। द्वारम- अभ्युपायं, कारणमिति भावः । इव= यथा, आनर्च = पूजयामास । __समा०-प्रदक्षिणं कृत्वेति प्रदक्षिणीकृत्य । प्रशस्तं पयोऽस्त्यस्या इति पयस्विनी तां तथोक्ताम् । अक्षतानां पात्रमततपात्रं, तेन सह वर्तेते याविति साक्षतपात्री साक्षतपात्री हस्तौ यस्याः सा साक्षतपात्रहस्ता। शृङ्गयोरन्तरं शृङ्गान्तरं तत्तथो. कम् । अर्थस्य सिद्धिरर्थसिद्धिस्तस्या अर्थसिद्धेः।
को०-'विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्' इत्यमरः । 'द्वारं निर्गमेऽभ्युपाये' इति हैमः।
ता०-सुदक्षिणा तां-नन्दिनी प्रदक्षिणीकृत्य प्रणम्य च, अक्षतः पुष्पादिभिश्व तस्याः शृङ्गान्तरप्रदेशं निजाभीएसिद्धेः कारणं मत्वा पूजयामास।
इन्दुः-अक्षतों से युक्त पात्र को हाथमें लिये रानी सुदक्षिणा ने उत्तम दूध वाली उस नन्दिनी की प्रदक्षिणा तथा वन्दना करके उसके चौड़े, दोनों सींगों के मध्यभाग का, पुत्रप्राप्तिरूप प्रयोजन सिद्ध होने के द्वार की भांति जानकर पूजन किया ॥ २१ ॥
वत्सोत्सुकाऽपि स्तिमिता सपर्या प्रत्यग्रहीत्सेति ननन्दतुस्तौ ।
भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुर फलानि ॥ २२ ॥ ___ सजी०-वत्सोत्सुकाऽपीति । सा धेनुर्वसोत्सुकापि वत्सोत्कण्ठितापि स्तिमिता निश्चला सती सपयां पूजां प्रत्यग्रहीदिति हेतोस्तौ दम्पती ननन्दतुः। पूजास्वीकार स्यानन्दहेतुमाह-भक्त्येति । पूज्येष्वनुरागो भक्तिस्तयोपपन्नेषु युक्तेषु विषये तद्विः धानां तस्या धेन्वा विधेव विधा प्रकारो येषां तेषाम् महतामित्यर्थः । प्रसादस्य चि. द्वानि लिङ्गानि पूजास्वीकारादीनि पुरम्फलानि पुरोगतांनि प्रत्यासन्नानि येषां तानि हि । अविलम्बितफलसूचकलिङ्गदर्शनादानन्दो युज्यत इत्यर्थः।
अ०-सा वत्सोत्सुका, अपि, स्तिमिता 'सती' सपयाँ, प्रत्यग्रहीत् इति तो, ननन्दतुः, भवस्या, उपपन्नेषु, तद्विधानां, प्रसादचिह्वानि, पुरस्फलानि, हि।