________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् |
वा०–तया वत्सोत्सुकया स्तिमितया सपर्या प्रत्यग्राहीति ताभ्यां ननन्दे, प्रसादचिह्नः पुरःफलर्हि भूयते । ___सुधा--साधेनुः, वत्सोत्सुकातर्णकोत्सुका, अपि सम्भावनायां, स्तिमितानिश्चला, सती । सपर्याम् = अर्चा, प्रत्यग्रहीत् = प्रतिजग्राह, इति-हेतोः, तौ-सुदक्षिणादिलीपो, ननन्दतुः= मुमुदाते, भक्त्या श्रद्धया, उपपन्नेषु-समन्वितेषु, तद्विधानां तत्प्रकाराणां, प्रसादचिह्नानि =प्रसन्नतालचमाणि, स्थिरतया पूजास्वीकरणादीनीति भावः। पुरःफलानि = आसन्नलाभवन्ति । हि = अवधारणे, सन्तीति शेषः ।
समा०--वत्से उत्सुका वत्सोत्सुका । सा च स च तौ। तस्या विधेव विधा प्रकारो येषान्ते तद्विधास्तेषां तद्विधानाम् ।।
. को०-'स्तिमितौ क्लिन्ननिश्चलौ' इत्यने । 'पूजा नमस्याऽपचितिः सपर्याऽर्चाऽहणाः समाः' इत्यमरः। ___ ता०--स्वीयवत्सदर्शनोत्कण्ठाऽन्वितायाः कामधेनुसुताया नन्दिन्याः सुस्थिरतया पूजाग्रहणेन तौ स्वकीयाभीष्टसिद्धिं झटित्येव भाविनी मत्वा मुसुदाते । ___ इन्दुः--नन्दिनी ने उस अपने बछड़े को देखने के लिए उत्कण्ठायुक्त होने पर भी स्थिर होते हुए 'सुदक्षिणा द्वारा किए गये' पूजन को स्वीकार किया। वे दोनों सुदक्षिणा और दिलीप प्रसन्न हुए। क्योंकि-अपने में अनुराग रखनेवाले जनों के विषय में नन्दिनी के समान बड़े लोगों की प्रसन्नता का चित, निश्चय से शीघ्र अभीष्ट सिद्धि करने वाला होता है ॥ २२॥ गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यश्च विधि दिलीपः । दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुनिषण्णाम् ॥ २३ ॥ ___ सजी०-गुरोरिति । भुजोच्छिन्नरिपुर्दिलीपः सदारस्य दारैररुन्धत्या सदा वत मानस्य गुरोः। उभयोरपीत्यर्थः। 'भार्या जायाऽथ पुम्भूम्नि दाराः' इत्यमरः । पादौ निपीड्याभिवन्द्य । सान्ध्यं सन्ध्यायां विहितं विधिमनुष्ठानं च समाप्य । दोहावसाने निषण्णामासीनां दोग्धीं दोहनशीलाम् । 'तृन्' इति तृन्प्रत्ययः। धेनुमेव पुनर्भेजे सेवितवान् । दोग्ध्रीमिति निरुपपदप्रयोगात्कामधेनुत्वं गम्यते । __ अ०-भुजोच्छिन्नरिपुः, दिलीपः, सदारस्य, गुरोः, पादौ, निपीड्य, सान्ध्यं, विधि, च समाप्य, दोहावसाने, निषण्णां, दोग्ध्रीम्, एव, पुनर् , भेजे ।
वा०-भुजोच्छिन्नरिपुणा दिलीपेन निषण्णा दोग्ध्रयेव पुनर्भेजे।।
सुधा०-भुजोच्छिन्नरिपुः = बाहुविनाशितशत्रुः, दिलीपातदाख्योऽयोध्याऽधिपतिः, सदारस्य-पत्नीसहितस्य, गुरोः-निषेकादिकृतः, वसिष्ठस्येति यावत् । पादौचरणौ, निपीड्य-संवाह्य, सान्ध्यं सन्ध्याकालिकं, विधिं ब्रह्मचिन्तनादिकं विधानं, चा अन्वाचये,समाप्य-विधाय,दोहावसाने दुग्धदोहनान्ते, निषण्णाम् उपविष्टाम्, दोग्ध्रीं धेनु, नन्दिनीम् । एव=अवधारणे, पुनः द्वितीयवारम्, भेजेसिषेवे ।