________________
रघुवंश महाकाव्यम्
[ द्वितीय:समा०- - दारैः सहितः सदारस्तस्य सदारस्य । सन्ध्यायां भवः सान्ध्यस्त सान्ध्यम् । दोहस्यावसानं दोहावसानं तस्मिंस्तथोक्ते । दोग्धीति दोग्ध्री तां दोग्ध्रीम् । भुजाभ्यामुच्छिन्ना भुजोच्छिन्नास्ते रिपवो येन स भुजोच्छिन्नरिपुः । को० – ‘पदङ्घ्रिश्चरणोऽस्त्रियाम्' इति 'भुजबाहू प्रवेष्टो दो:' इति चामरः । ता० - सपत्नीको दिलीपः सपत्नीकस्य वसिष्ठमहर्षेश्वरण संवाहनं कृत्वा कृतसा• यन्तनकृत्यः पुनरेव नन्दिन्याः परिचर्यां कृतवान् कण्डूयनादिभिः ।
इन्दुः- बाहुओं से शत्रुओं को नष्ट करने वाले राजा दिलीप पत्नीसहित गुरु का चरण दबाकर, अपने सायङ्कालिक नित्यकृत्य समाप्त करने के पश्चात्, दूध दुह चुकने के बाद सुखपूर्वक बैठी हुई नन्दिनी की फिर सेवा करने लगे ॥ २३ ॥ तामन्तिकन्यस्त बलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः । क्रमेण सुतामनुसंविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ।। २४ ।। सञ्जी० - तामिति । गोप्ता रक्षको गृहिणीसहायः । पत्नी द्वितीयः सन् । उभाव पीत्यर्थः । अन्तिके न्यस्ता बलयः प्रदीपाश्च यस्यास्तां तथोक्तां पूर्वोक्तां निषण्णां धेनु' मन्दास्यानूपविश्य क्रमेण सुप्तामन्वनन्तरं संविवेश सुष्वाप । प्रातः सुप्तोत्थितामनुः दतिष्ठदुत्थितवान् । अन्नानुशब्देन धेनुराजव्यापारयोः पौर्वापर्यमुच्यते, क्रमशब्देन धेनुव्यापाराणामेवेत्य पौनरुक्त्यम् । 'कर्मप्रवचनीययुक्ते' इति द्वितीया ।
अ० -- गोप्ता, गृहिणीसहायः ( सन् ), अन्तिकन्यस्तवलिप्रदीपां, ताम्, अन्वास्य, क्रमेण, सुप्ताम्र, अनुसंविवेश, प्रातः, सुप्तोत्थिताम्, अनु, उदतिष्ठत् ।
वा०—गोपना गृहिणीसहायेन सुप्ताऽनुसंविविशे, उदस्थीयत ।
0
सुधा - गोप्ता = रक्षिता दिलीपः, गृहिणीसहायः = भार्याऽनुचरः । अन्तिकन्यस्तवलिप्रदीपां = समीपस्थापितोपहारदीपां, ताम् = निषण्णां नन्दिनीम् । अन्वास्य = पश्चादुपविश्य, क्रमेण = अनुक्रमेण, सुप्तां= निद्रिताम्, अनु = पश्चात्, संविवेश = शिश्ये, प्रातः=प्रभाते, सुप्तोत्थितां = शयितविनिद्विताम्, अनु पश्चाद्, उदतिष्ठत् = उत्तस्थौ । समा० – अन्तिके न्यस्ता अन्तिकन्यस्ताः, बलेः प्रदीपा बलिप्रदीपा अन्तिकन्यबलिप्रदीपा यस्याः साऽन्तिकन्यस्तबलिप्रदीपा तां तथोक्ताम् । गृहिणी सहायो यस्यासौ गृहिणीसहायः 'आदौ ' सुप्ता 'पश्चाद्' उत्थिता सुप्तोत्थिता तां तथोक्ताम् ।
-
को० - ' उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्' इति । 'दीपः प्रदीप' इति । 'स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि' इति चामरः ।
ता०-- सपत्नीको राजा दिलीपः समीपस्थापितपूजा दीपायास्तस्याः पश्चाद्भागे, सुपविश्य ततः सुप्तायां नन्दिन्यां सत्यां तदनु स्वयं सपत्नीकोऽपि सुष्वाप, ततः प्रातःकाल उत्थितायां तस्यां तदनुदतिष्ठत् ।
२२
इन्दुः- रक्षा करनेवाले, सुदक्षिणा के सहित राजा दिलीप, जिसके समीप में उप हारसम्बन्धी दीप रखे गये हैं ऐसी उस बैठी हुई नन्दिनी के पश्चात् बैठकर क्रम से