________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् | उस (नन्दिनी) के सोने के अनन्तर सोये और प्रातःकाल उसके सोकर उठ जाने के बाद उठे ॥ २४॥
इत्थं व्रतं धारयतः प्रजाऽथ समं महिष्या महनीयकोतः। सप्त व्यतीयुत्रिगुणानि तस्या दिनानि दीनोद्धरणोचितस्य ।। २५ ॥
सञ्जी०-इत्थमिति । इत्थमनेन प्रकारेण प्रजाऽर्थ सन्तानाय महिण्या सममभिषिक्तपरन्या सह । 'कृताभिषेका महिषी' इत्यमरः । व्रतं धारयतः, महनीया पूज्या कीर्तिर्यस्य तस्य, दीनानामुद्धरणं दैन्यविमोचनं तत्रोचितस्य परिचितस्य तस्य नृपस्य, यो गुणा आवृत्तयो येषां तानि त्रिगुणानि त्रिरावृत्तानि सप्त दिनान्येकदिशतिदिनानि व्यतीयुः।
अ०-इत्थं प्रजार्थं महिण्या, समं, व्रतं, धारयतः महनीयकीर्तेः, दीनोद्धरणोवितस्य, तस्य, त्रिगुणानि, सप्तदिनानि, व्यतीयुः । वा०-सप्तभिस्त्रिगुणैर्दिनयंतीये। ___ सुधा-इत्थम् = अनेन प्रकारेण, प्रजार्थ सन्ततिप्रयोजनकम्, महिण्या-कृताभिषेकया परन्या सुदक्षिणया, समं = साधं, व्रतं = नियम, धाग्यतः दधतः, महनीयकीर्तेः प्रशस्ययशसः, दीनोद्धरणोचितस्य दीनजनरक्षणतत्परस्य, तस्य दिली. पस्य, त्रिगुणानि = त्रिरावृत्तानि, सप्त = सप्तसङ्ग्यकानि, दिनानि =दिवसानि, एकविंशतिदिनानीति भावः । व्यतीयुः = व्यतिचक्रमुः।। ___स-प्रजैवार्थः प्रयोजनं यस्य तत् प्रजाऽर्थं तत्तथोक्तम् । महनीया कीर्तिर्यस्यासौ महनीयकीर्तिस्तस्य महनीयकीर्तेः। दीनानामुद्धरणं दीनोद्धरणं तत्रोचितो दीनोद्धरणोचितस्तस्य तथोक्तस्य । ___ को०-'साकं साधं समं सह' इत्यमरः । 'उचितं तु भवे न्यस्ते मिते ज्ञाते समञ्जसे' इति मे।
ता०–एवं महिष्या साधं नन्दिनीपरिचर्यात्मकं नियमं कुर्वतस्तस्य दिलीपस्यैकविंशतिदिनानि व्यतीतानि ।। __इन्दुः-इस प्रकार पुत्र के लिए महारानी सुदक्षिणा के साथ नियम को धारण करते हुए प्रशंसनीय कीर्तिवाले दीनों के उद्धार करने में लगे हुए महाराज दिलीप के निगुने सात (इक्कीस) दिन बीत गये ॥ २५ ॥
अन्येद्यरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ।। ६ ।।
स०-अन्येद्यरिति। अन्येधुरन्यस्मिन्दिने द्वाविंशे दिने । 'सद्यापरुत्परा' इत्यादिना निपातनादव्ययत्वम् । 'अद्यात्रायथ पूर्वेऽहीत्यादौ पूर्वोत्तरापरात् । तथाऽधरान्यान्यतरेतरात्पूर्वद्युरादयः' इत्यमरः। मुनिहोमधेनुः। आत्मानुचरस्य भावमभिप्रायं दृढभक्तिस्वम् । 'भावोऽभिप्राय आशयः' इति यादवः। जिज्ञासमाना ज्ञातुमिच्छन्ती। 'ज्ञाश्रुस्मृहशां,सनः' इत्यात्मनेपदे शानच । प्रपतनस्यस्मिन्निति प्रपातः पतनप्रदेशः गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बाल