________________
२४
रघुवंशहाकाव्यम्
[ द्वितीय
तृणानि यस्मिंस्तत् । 'शष्पं वालतृणं घासः' इत्यमरः । गौरीगुरोः पार्वतीपितुर्गह्वर गुहामाविवेश ।
अ० -- अन्येद्युः, मुनिहोमधेनुः, आत्मानुचरस्य, भावं, जिज्ञासमाना, गङ्गाप्रपा तान्तविरूढशष्पं, गौरीगुरोः, गह्वरम्, आविवेश ।
वा० - सुनिहोमधेन्वा जिज्ञासमानया गौरीगुरोर्गह्वरमा विविशे ।
सुधा - अन्येद्युः = अन्यस्मिन् दिने, द्वाविंशे दिवस इति भावः । मुनिहोमधेनुः = वसिष्ठमहर्षेर्हवन सामग्रीसम्पादिका नन्दिनी, आत्मानुचरस्य = स्वपश्चाद्यायिनः, दिलीपस्य | भावम् = आशयं भक्तिम् । जिज्ञासमाना = ज्ञातुमिच्छन्ती, गङ्गाप्रपा तान्तविरूढशप्पं = सुरनिम्नगाप्रवाहपतननिकटोत्पन्नबालतृणं, गौरीगुरोः = हिमाल याख्यपर्वतस्य, गह्वरं = देवखातबिलम्, आविवेश = आविशत् ।
स० – आत्मनोऽनुचर आत्मानुचरस्तस्य तथोक्तस्य । ज्ञातुमिच्छतीति जिज्ञा सत इति जिज्ञासमाना । होमस्य धेनुहोंमधेनुः मुनेर्होमधेनुर्मुनिहो मधेनुः गङ्गायाः प्रपातो गङ्गाप्रपातः, तस्यान्तो गङ्गाप्रपातान्तः, तत्र विरूढानि गङ्गा प्रपातान्तविरूढानि शष्पाणि यत्र तद् गङ्गाप्रपातान्तविरूढशष्पं तत्तथोक्तम् । गौर्या गुरुगौरीगुरुस्तस्य गौरीगुरोः ।
को० - 'प्रपातो निर्झरे भृगौ । अवटे पतने कच्छे' इति हैमः, 'देवखातबिले. गुहा, गह्वरम्' इत्यमरः ।
ता०- - द्वाविंशे दिवसे धेनुर्दिलीपस्य दृढभक्तिपरीक्षार्थं हिमालयस्य गुहाप्रवेश. मकरोत् ।
इन्दु: - दूसरे (बाइसवें ) दिन वसिष्ठ की होमसम्बन्धी धेनु (नन्दिनी) अपने सेवक राजा दिलीप के 'मुझ में दृढ भक्ति है या नहीं" इस भाव को जानने की इच्छा रखती हुई गङ्गा के वारिप्रवाह के समीप उगी हुई है छोटी-छोटी घास जिसमें ऐसे पार्वती के पिता ( हिमालय ) की गुफा में घुसी ॥ २६ ॥
सा दुष्प्रधर्षा मनसाऽपि हिंस्त्रैरित्यद्रिशोभा प्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ।। २७ ।। सञ्जी॰—सेति । सा धेनुः हिंस्त्रैर्व्याघ्रादिभिर्मनसाऽपि दुष्प्रधर्षा दुर्धर्षेति हेतोरनशोभायां प्रहितेक्षणेन दत्तदृष्टिना नृपेणालक्षिताभ्युत्पतनमाभिमुख्येनोत्पतनं यस्य स सिंहस्तां धेनुं प्रसह्य हठात् । 'प्रसह्य तु हठार्थकम्' इत्यमरः । चकर्ष । किलेत्यलीके । अ० - सा, हिंखैः, मनसा, अपि, दुष्प्रधर्षा, इति, अद्विशोभाप्रहितेक्षणेन, नृपेण, अलक्षिताभ्युत्पतनः, सिंहः, प्रसह्य, चकर्ष, किल ।
वा०—तया दुष्प्रधर्षया 'भूयते ' अलक्षिताभ्युत्पतनेन सिंहेन सा चकृषे ।
सुधा - सा = नन्दिनी । हिंस्त्रैः = घातुकैः, व्याघ्रादिभिः, मनसा = मानसेन, अपि = सम्भावनायां, दुष्प्रधर्षा = दुर्धषो, इति हेतोः, अद्विशोभाप्रहितेक्षणेन = शैलच्छवि