________________
१६
रघुवंश महाकाव्यम्
[ द्वितीय
प्रत्यक्षा, श्रद्धा = आस्तिक्यबुद्धिः, इव = यथा, बभौ = शुशुभे, च = पुनः, अन्वाease चकारो बोध्यः ।
तमा० -- देवताश्च पितरश्चातिथयश्चेति देवतापित्रतिथयः, तासां क्रिया देवतापित्रतिथिक्रियाः ता एवार्थः प्रयोजनं यस्याः सा देवतापित्रतिथिक्रियाऽर्था तां तथोकाम् | अन्वञ्चतीत्यन्वग् । मध्ये भवो मध्यमः, मध्यमभासौ लोको मध्यमलोकः, तम्पालयतीति मध्य मलोकपालः ।
कोशः -- 'लोकस्तु भवने जने' इति । 'साक्षात् प्रत्यक्ष तुल्ययोः' इति । 'विधिवि धाने देवेऽपि' इति चामरः ।
ता०-
-- पृथ्वीपतिर्दिलीपो देवादिनिमित्तकयागादिसाधिकां तां धेनुमनुगच्छन् सन् ययौ, साधुजनपूजितेन तेन युक्ता सती साऽपि साक्षादनुष्ठानेन युक्ताऽऽस्तिक्यबुद्धिरिव शुशुभे ।
इन्दुः -- भूलोक के पालन करने वाले राजा दिलीप देवता, पितर और अतिथि लोगों के कार्य (यज्ञ, श्राद्ध भोजनादि ) को साधने वाली, उस धेनु के पीछे-पीछे चले, और सज्जनों के द्वारा पूजित उनसे युक्त, वह ( नन्दिनी ) भी सज्जनों से किये गये अनुष्ठान से युक्त श्रद्धा जैसी सुशोभित होती है वैसी सुशोभित होने लगी ॥१६॥ पल्बलोत्तीर्णवराहायूथान्यावास वृक्षोन्मुख बहिणानि ।
स
मृगाध्यासनशाद्वलानि श्या मायमानानि वनानि पश्यन् ॥ १७ ॥ सञ्जी० -- स इति । स राजा । पल्वलेभ्योऽल्पजलाशयेभ्य उत्तीर्णानि निर्गतानि वराहाणां यूथानि कुलानि येषु तानि । वर्गाण्येषां सन्तीति वर्हिणा मयूराः । 'मयू रो वहिणो पर्ही' इत्यमरः । 'फलबर्हाभ्यामिनच्प्रत्ययो वक्तव्यः' आवासवृक्षणामु न्मुखा वर्हिणा येषु तानि श्यामायमानानि वराहबर्हिणादिमलिनिम्ना, अश्यामानि श्यामानि भवन्तीति श्यामायमानानि । 'लोहितादिढाऽभ्यः क्यप्' इति क्यप् प्रत्ययः । ' वा क्यषः' इत्यात्मनेपदे शानच् । मृगैरध्यासिता अधिष्ठिताः शाद्वलो येषु तानि । शादाः शप्पाण्येषु देशेषु सन्तीति शाद्वलाः शप्पश्यामदेशाः । 'शाद्वलः शादहरिते' इत्यमरः । ‘शादः कर्दुमशष्पयोः' इति विश्वः । 'नडशादाड्ड्वलच्' इति ड्वलच्प्रत्ययः । वनानि पश्यन्ययौ ।
अ० -- सः, पल्वलोत्तीर्णवराहयूथानि, आवासवृक्षोन्मुखवर्हिणानि, मृगाध्यासितशाद्वलानि, श्यामायमानानि वनानि, पश्यन्, सन् ययौ ।
वा०-- तेन पश्यता सता यये ।
सुधा -- सः = राजा दिलीपः, पल्वलोत्तोर्णवराहयूथानि = अल्पसरो निर्यात शूकरसमूहानि, आवासवृक्षोन्मुख वर्हिणानि = निवासार्थपादपाभिमुखशिखावलानि, मृगाध्यासितशाद्वलानि = हरिणाधिष्ठित शादहरितानि, 'अत एव शूकरमयूरशष्पादीनां श्यामतया' श्यामायमानानि = कृष्णीभूतानि वनानि = अरयानि, पश्यन् = कयन्, 'सन्' ययौ = जगाम ।
• अवलो