________________
सर्गः]
सञ्जीविनी-सुधेन्दु कात्रयोपेतम् | __ सुधा-पन्नवरागताम्रा= किसलयवर्णारुणा, पतङ्गस्य = सूर्यस्य, प्रभा = कान्तिः; मुनेः = महर्वसिष्ठस्य । धेनुः = नन्दिनी, च = समुच्चये, दिगन्तराणि = आशावकाशान्, सञ्चारपूतानि सञ्चरणपवित्राणि, कृत्वा = सम्पाद्य, दिनान्ते=दिवसाव. साने, निलयाय =(प्रभापक्षे) अस्तमयाय, (धेनुपक्षे) गृहाय, गन्तुं = याहूँ, प्रचक्रमे = उपक्रमं कृतवती।। ___समा०-सञ्चारेण पूतानि सञ्चारपूतानि तानि सञ्चारपूतानि । दिशामन्तराणि दिगन्तराणि तानि दिगन्तराणि । दिनस्यान्तो दिनान्तस्तस्मिन् दिनान्ते ।
कोशः–'निलयोऽस्तमये गृहे । गोपनस्य प्रदेशेऽपि' इति हैमः। 'पल्लवोऽस्त्री किसलयम्' इत्यमरः। 'तानं शुल्बेऽरुणेऽपि च' इति मेदिनी। ___ता:०-सूर्यकान्तिर्यथा सायङ्कालेऽस्तमयाय गन्तुमुपक्रमं कृतवती तथैव सुनिहोमधेनुरपि स्वाश्रमाय गन्तुमुद्यताऽसूत् ।
इन्दुः-पल्लव के वर्ण की तरह लाल वर्णवाली सूर्य की प्रभा और मुनि वसिष्ठ की धेनु ये दोनों, दिशाओं के मध्यभाग को अपने-अपने सञ्चार से पवित्र करके दिन के अन्त (सन्ध्याकाल) में अस्त होने के लिये तथा अपने आश्रम में पहुंचने के लिये उपक्रम करने लगीं ॥ १५॥
तां देवतापित्रतिक्रियाऽर्थामन्वग्ययौ मध्यमलोकपालः | बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विपिनोपपन्ना ।। १६ ।। सजी०--तामिति । मध्यमलोकपालो भूपालः । देवतापित्रतिथीनां क्रिया यागश्राद्धदानानि ता एवार्थः यस्यास्तां धेनुमन्वगनुपदं ययौ । 'अन्वगन्वक्षमनुगेऽनुपदं क्लीवमव्ययम्' इत्यमरः । सतां मतेन सद्भिर्मान्येन । 'गतिवुद्धि' इत्यादिना वर्तमाने क्तः। तस्य च वर्तमाने' इति षष्ठी। तेन राज्ञोपपन्ना युक्ता सा धेनुः सतां मतेए विधिनाऽनुष्ठानेनोपपन्ना युक्ता साक्षात्प्रत्ययक्षा श्रद्धाऽऽस्तिक्यबुद्धिरिव बभौ च। ___ अ०--मध्ममलोकपालः, देवतापित्रतिथिक्रियाऽर्था, ताम्, अन्वग, ययौ, सतां मतेन, तेन, उपपन्ना, सा, (सतारमतेन), विधिना, (उपपना) साक्षात्, श्रद्धा, इव, वभौ च । वा०--मध्यमलोकपालेन देवतापित्रतिथिक्रियाऽर्था साऽन्वग् यये उपपन्नया तया साक्षाच्छूद्धयेव वभे च ।
सुधा--मध्यमलोकपालः = भूपो दिलीपः, देवतापित्रतिथिक्रियाऽर्थां = सुरपित्रप्राधुणिककृत्यप्रयोजनका, यज्ञश्राद्धदानादिसाधिकामिति यावत् । तां वनात्परावर्त्तमानां नन्दिनीम्, अन्वग= अन्वक्षम् । ययौ जगाम, सतांसाधूनां, विदुषां वा, मतेन= पूजितेन, तेन-राज्ञा, दिलीपेन, उपपन्ना= युक्ता, साधेनुः, सताम्मतेन% साधुजनाचरितेन, विधिना= विधानेन, उपपन्ना-युक्ता, सहितेति यावत् । साक्षात्