________________
१४
रघुवंशमहाकाव्यम्-- [द्वितीयः जन्तुषु मध्ये । 'यतश्च निर्धारणम्' इति सप्तमी । अधिकः प्रवलो व्याघ्रादिरूपो दुर्वलं हिरणादिकं न घबाधे।। - अ०-गोप्तरि, तस्मिन्, वनं, गाहमाने (सति), वृष्ट्या, विना, अपि दवाग्निः, शशाम, फलपुष्पवृद्धिः, विशेषा, आसीत, सरवेषु (मध्ये), अधिकः, ऊनं, न बवाधे।
वा०-दवाग्निना, शेमे, फलपुष्पवृद्धया विशेषयाऽभूयत, अधिकेनोनो न बबाधे।
सुधा-गोप्तरि= रक्षितरि, तस्मिन् = राज्ञि, दिलीपे । वनं = विपिनं, गाहमाने प्रविशति, सतीति शेषः। वृष्टया वर्षणेन, विना = अन्तरेण, अपि =समुच्चये, दवाग्निः = वनवतिः, शशाम = अशमत्, फलपुष्पवृद्धिः सत्यप्रसूनसमृद्धिः, विशेषा= अतिशयिता, आसीत् अभवत्, सत्त्वेषु-जन्तृषु मध्ये, अधिका-प्रवलो व्याघ्रादिः, ऊनंम्हीनं, मृगादिकम् । न = नहि, वबाधे = पीडयामास।
समा०-दवस्याग्निर्दवाग्निः। विशिष्यतेऽसौ विशेषा। फलानि च पुष्पाणि च फलपुष्पाणि फलपुष्पाणां वृद्धिः फलपुष्पवृद्धिः। गोपायतीति गोप्ता तस्मिन् गोप्तरि। गाहत इति गाहमानस्तस्मिन् गाहमाने ।
कोशः-गर्दासमुच्चयप्रश्रशङ्कासम्भावनास्वपि' इति । 'पृथग्विनाऽन्तरेणर्ते हिरुड नाना च वर्जने' इति 'हीनन्यूनावूनगौँ' इति चामरः।
ता०-जगद्रक्षकस्य दिलीपस्य प्रभावाद् वनप्रवेशक्षण एवं दवाग्निशान्तिः फलपुष्पवृद्धिर्वन्यजीवेषु निरुपद्रवता च सविशेषमभूत्। ____ इन्दुः-जगत् की रक्षा करने वाले उन राजा दिलीप के वन में प्रवेश करने पर वृष्टि के विना ही वन की अग्नि शान्त हुई, फल और पुष्पों की वृद्धि अधिक हुई, तथा बनैले जोवों के बीच में कोई, बलवान् 'व्याघ्रादि' अपने से निर्वल किसी 'मृगादि' को नहीं सताने लगा ॥१४॥
सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य 'मुनेश्च धेनुः ।। १२ ।।
सजी०-सञ्चारेति । पल्लवस्य रागो वर्णः पल्लवरागः। 'रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु'। इति शाश्वतः। स इव ताम्रा पल्लवरागताम्रा । पतङ्गस्य सूर्यस्य प्रभा कान्तिः 'पतमः पक्षिसूर्ययोः' इति शाश्वतः। मुनेर्धेनुश्च । दिगन्तराणि दिशामवकाशान् । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्खे' इत्यमरः। सञ्चारेण पूतानि शुद्धानि कृत्वा दिनान्ते सायंकाले निलयायास्तमयाय । धेनुपक्षे आलयाय च गन्तुं प्रचक्रमे।।
अ०-पल्लवरागताम्रा, पतङ्गस्य, प्रभा, मुनेः, धेनुः, च, दिगन्तराणि, सञ्चार पूतानि, कृत्वा, दिनान्ते, निलयाय, गन्तुं, प्रचक्रमे ।।
वा०-पल्लवरागताम्रया पतङ्गस्य प्रभया मुनेर्धेन्वा च प्रचक्रमे ।